← Texts
Advaita Vedanta

Aparokshanubhuti

Aparokshanubhuti, "direct experience", teaches how the Self is known immediately rather than by inference: the fourfold preparation, the inquiry "who am I?", and a fifteen-limbed yoga of knowledge in place of the eight limbs of hatha yoga. 144 verses.

Shankaracharya · 144 verses

अपरोक्षानुभूतिः
1.1श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् । व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् 1.2अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये । सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर् 1.3स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् 1.4ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि नि 1.5नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् । एवं यो निश्चयः सम्यग्विवेको वस्तुनः स 1.6सदैव वासनात्यागः शमोऽयमिति शब्दितः । निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते 1.7विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा । सहनं सर्वदुःखानां तितिक्षा सा शुभा मता 1.8निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता । चित्तैकाग्र्यं तु सल्लक्ष्ये समाध 1.9संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे । इति या सुदृढा बुद्धिर्वक्तव्या सा मु 1.10उक्तसाधनयुक्तेन विचारः पुरुषेण हि । कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता 1.11नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः । यथा पदार्थभानं हि प्रकाशेन विना क्वचि 1.12कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते । उपादानं किमस्तीह विचारः सोऽयमीदृशः 1.13नाहं भूतगणो देहो नाहं चाक्षगणस्तथा । एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः 1.14अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते । सङ्कल्पो विविधः कर्ता विचारः सोऽयमीदृशः 1.15एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् । यथैव मृद्घटादीनां विचारः सोऽयमीदृशः 1.16अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः । तदहं नात्र सन्देहो विचारः सोऽयमीदृश 1.17आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् 1.18आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः पर 1.19आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम 1.20आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् 1.21आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमत 1.22आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् । नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं 1.23देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः । ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा 1.24ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते 1.25निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुध 1.26निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधै 1.27निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित् 1.28निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते ब 1.29स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम् । किं मूर्ख शून्यमात्मानं देहातीतं क 1.30स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् । देहातीतं सदाकारं सुदुर् 1.31अहंशब्देन विख्यात एक एव स्थितः परः । स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः प 1.32अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः । ममायमिति निर्देशात्कथं स्याद्देहकः 1.33अहं विकारहीनस्तु देहो नित्यं विकारवान् । इति प्रतीयते साक्षात्कथं स्याद्देहकः पु 1.34यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् । विनिर्णीतं विशुद्धेन कथं स्याद्देहकः प 1.35सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते । अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः 1.36असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च । अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् 1.37तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः । जडः परप्रकाश्योऽयं कथं स्याद्देहकः प 1.38प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः । नित्यश्च तत्फलं भुङ्क्ते देहपा 1.39लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च । अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् 1.40एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः । सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः 1.41इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता । यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता 1.42इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् । इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यत 1.43चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर् 1.44रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी । भाति तद्वच्चितिः साक्षाद्विश्वा 1.45उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्त 1.46व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे भेदस्यावसरः 1.47श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि । कथं भासो भवेदन्यः स्थिते चाद्वयकार 1.48दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति । इह पश्यति नानात्वं मायया वञ्च 1.49ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः । तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् 1.50ब्रह्मैव सर्वनामानि रूपाणि विविधानि च । कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जग 1.51सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भ 1.52स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषित 1.53यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति । आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वप 1.54यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः । न वै तस्य भवेन्मोहो न च शोकोऽद्विती 1.55अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः । इति निर्धारितं श्रुत्या बृहदारण्यसंस् 1.56अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः 1.57स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि । द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न 1.58त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चि 1.59यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् । तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या 1.60यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे 1.61यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदा 1.62यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत 1.63यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथाऽऽत 1.64घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः । जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः 1.65सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः । अज्ञानान्न विजानन्ति मृदेव हि घटादि 1.66कार्यकारणता नित्यमास्ते घटमृदोर्यथा । तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह 1.67गृह्यमाणे घटे यद्वन्मृत्तिकाऽऽभाति वै बलात् । वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभ 1.68सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा । यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञा 1.69यथैव मृण्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः । आत्मानात्मविभागोऽयं मुधैव क्रियते बुध 1.70सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता 1.71घटत्वेन यथा पृथ्वी पटत्वेनैव तन्तवः । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता 1.72कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता 1.73पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता 1.74गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहता । विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता 1.75यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.76पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.77पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगत 1.78चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् । तद्वदात्मनि देहत्वं पश्यत्यज 1.79अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.80महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.81सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञान 1.82काचभूमौ जलत्वं वा जलभूमौ हि काचता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.83यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोग 1.84अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.85यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.86यथा शशी जले भाति चञ्चलत्वेन कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः 1.87एवमात्मन्यविद्यातो देहाध्यासो हि जायते । स एवात्मपरिज्ञानाल्लीयते च परात्मनि 1.88सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् । अभावात्सर्वभावानां देहता चात्मनः कुतः 1.89आत्मानां सततं जानन्कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि 1.90उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति । इति यच्छ्रूयते शास्त्रे तन्निरा 1.91तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्यत्वात् यथा स्वप्नः 1.92कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् । तत्तु जन्मान्तराभावात्पुंसो नैवास् 1.93स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः । अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः 1.94उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते । अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क् 1.95यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति म 1.96रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून् 1.97देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानिजनबोधार्थं प्रारब्धं वक्त 1.98क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । बहुत्वं तन्निषेधार्थं श्रुत्या गी 1.99उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः । वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः 1.100त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्यैव सिद्धये । तैश्च सर्वैः सदा कार्यं निदि 1.101नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः । तस्माद्ब्रह्म निदिध्यासेज्जिज्ञ 1.102यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः 1.103प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क 1.104सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुह 1.105सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः 1.106त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् । त्यागो हि महतां पूज्यः सद्यो मोक्षमयो 1.107यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः 1.108वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दवि 1.109इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् । गिरां मौनं तु बालानां प्रयुक्तं ब्रह्मवा 1.110आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृ 1.111कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद् 1.112सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयान्नेतरत्सुखनाशनम् 1.113सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् । यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद् 1.114यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगि 1.115अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृ 1.116दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्राव 1.117द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्राव 1.118चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच् 1.119निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरित 1.120ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीड 1.121विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुम 1.122यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता 1.123ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्दद 1.124निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज् 1.125एवञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् 1.126ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वरूपं न चैकस्य विषयो मनसो गिराम् 1.127समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् 1.128लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता । एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविद 1.129भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तथ 1.130ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च 1.131ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास 1.132येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे श 1.133कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान 1.134निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनका 1.135कार्ये कारणताऽऽयाता कारणे न हि कार्यता । कारणत्वं स्वतो गच्छेत्कार्याभावे विचारत 1.136अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः 1.137अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् । उदेति शुद्धचित्तानां वृत्तिज्ञानं 1.138कारणं व्यतिरेकेण पुमानादौ विलोकयेत् । अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति 1.139कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् । कारणत्वं स्वतो नश्येदवशिष्टं भ 1.140भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरक 1.141अदृश्यं भावरूपञ्च सर्वमेतत् चिदात्मकम् । सावधानतया नित्यं स्वात्मानं भावयेद्बुधः 1.142दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । विद्वान्नित्यसुखे तिष्ठेद्धिय 1.143एभिरङ्गैः समायुक्तो राजयोग उदाहृतः । किञ्चित्पक्वकषायाणां हठयोगेन संयुतः 1.144परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः । गुरुदैवतभक्तानां सर्वेषां सुलभो जवात्