← Ashtavakra Gita
Ashtavakra Gita

द्वितीयम् प्रकरणम्

25 verses · Ashtavakra (traditional)

2.1अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः । एतावन्तमहं कालं मोहेनैव विडम्बितः 2.2यथा प्रकाशयाम्येको देहमेनं तथा जगत् । अतो मम जगत्सर्वमथवा न च किञ्चन 2.3स शरीरमहो विश्वं परित्यज्य मयाधुना । कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते 2.4यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्बुदाः । आत्मनो न तथा भिन्नं विश्वमात्मविनिर्ग 2.5तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः । आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचा 2.6यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा । तथा विश्वं मयि क्लृप्तं मया व्याप्त 2.7आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते । रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भा 2.8प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः । यदा प्रकाशते विश्वं तदाहं भास एव ह 2.9अहो विकल्पितं विश्वमज्ञानान्मयि भासते । रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथ 2.10मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुम्भो जले वीचिः कनके कटकं यथा 2.11अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे । ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशोऽपि ति 2.12अहो अहं नमो मह्यमेकोऽहं देहवानपि । क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः 2.13अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः । असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् 2.14अहो अहं नमो मह्यं यस्य मे नास्ति किञ्चन । अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् 2.15ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् । अज्ञानाद् भाति यत्रेदं सोऽहमस 2.16द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् । दृश्यमेतन् मृषा सर्वमेकोऽहं चिद्रसो 2.17बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया । एवं विमृशतो नित्यं निर्विकल्पे स्थितिर 2.18न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया । अहो मयि स्थितं विश्वं वस् 2.19सशरीरमिदं विश्वं न किञ्चिदिति निश्चितम् । शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्प 2.20शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा । कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः 2.21अहो जनसमूहेऽपि न द्वैतं पश्यतो मम । अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् 2.22नाहं देहो न मे देहो जीवो नाहमहं हि चित् । अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा 2.23अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् । मय्यनन्तमहाम्भोधौ चित्तवाते समुद् 2.24मय्यनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति । अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः 2.25मय्यनन्तमहाम्भोधावाश्चर्यं जीववीचयः । उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभाव