← Ashtavakra Gita
Ashtavakra Gita

द्वादशम् प्रकरणम्

8 verses · Ashtavakra (traditional)

12.1कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः । अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः 12.2प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः । विक्षेपैकाग्रहृदय एवमेवाहमास्थितः 12.3समाध्यासादिविक्षिप्तौ व्यवहारः समाधये । एवं विलोक्य नियममेवमेवाहमास्थितः 12.4हेयोपादेयविरहाद् एवं हर्षविषादयोः । अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः 12.5आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् । विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः 12.6कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा । बुध्वा सम्यगिदं तत्त्वमेवमेवाहमास्थितः 12.7अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ । त्यक्त्वा तद्भावनं तस्माद् एवमेवाह 12.8एवमेव कृतं येन स कृतार्थो भवेदसौ । एवमेव स्वभावो यः स कृतार्थो भवेदसौ