← Texts
Advaita Vedanta

Atma Bodha

Atma Bodha, "knowledge of the Self", is a primer of Advaita in 68 verses: knowledge alone liberates, the bodies and sheaths are superimposed on the Self, and the knower comes to see the one Self everywhere, like the sun lighting all things.

Shankaracharya · 68 verses

आत्मबोधः
1.1तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीय 1.2बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न 1.3अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसङ् 1.4परिच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमा 1.5अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरे 1.6संसारः स्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः । स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भ 1.7तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् 1.8उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि 1.9सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके क 1.10यथाकाशो हृषीकेशो नानोपाधिगतो विभुः । तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् 1.11नानोपाधिवशादेव जातिवर्णाश्रमादयः । आत्मन्यारोपितास्तोये रसवर्णादि भेदवत् 1.12पंचीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते 1.13पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपंचीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् 1.14अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् 1.15पंचकोशादियोगेन तत्तन्मय इव स्थितः । शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा 1.16वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः । आत्मानमन्तरं शुद्धं विविच्यात्तण्डुल 1.17सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् 1.18देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तद्वृत्तिसाक्षिणं विद्यादात्मानं राज 1.19व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेषु धावत्सु धावन् 1.20आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः । स्वक्रियार्थेषु वर्तन्ते सूर्यालोकं यथा 1.21देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि । अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् 1.22अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथ 1.23रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद् 1.24प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता । स्वभावः सच्चिदानन्दनित्यनिर्मलतात्म 1.25आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर् 1.26आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति । जीवः सर्वमलं ज्ञात्वा ज्ञाता द् 1.27रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातं चेन्निर् 1.28आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभ 1.29स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः । न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने 1.30निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्म 1.31आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् । एतद्विलक्षणं विद्यादहं ब्रह्मेति निर् 1.32देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः । शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च 1.33अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतिशासनात् 1.34निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरंजनः । निर्विकारो निराकारो नित्यमुक्तो 1.35अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः । सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः 1.36नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् 1.37एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना । हरत्यविद्याविक्षेपान् रोगानिव रसायनम 1.38विविक्तदेश आसीनो विरागो विजितेन्द्रियः । भावयेदेकमात्मानं तमनन्तमनन्यधीः 1.39आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा 1.40रूपवर्णादिकं सर्वं विहाय परमार्थवित् । परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते 1.41ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत 1.42एवमात्मारणौ ध्यानमथने सततं कृते । उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत् 1.43अरुणेनेव बोधेन पूर्वं सन्तमसे हृते । तत आविर्भवेदात्मा स्वयमेवांशुमानिव 1.44आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया । तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं 1.45स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता । जीवस्य तात्त्विके रूपे तस्मिन्दृ 1.46तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमंजसा । अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् 1.47सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलं जगत् । एकं च सर्वमात्मानमीक्षते ज्ञानचक 1.48आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते । मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक 1.49जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् । सच्चिदानन्दरूपत्वात् भवेद्भ 1.50तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् । योगी शान्तिसमायुक्त आत्मारामो वि 1.51बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः । घटस्थदीपवत्स्वस्थः स्वान्तरेव प्रका 1.52उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः । सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्च 1.53उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं वियद्व्योम्नि तेजस्तेजसि वा 1.54यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्य 1.55यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह 1.56तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधा 1.57अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽद्वयम् । अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यव 1.58अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः । ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखि 1.59तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखि 1.60अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् 1.61यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते । येन सर्वमिदं भाति तद्ब्रह्मेत्य 1.62स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत 1.63जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन । ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुम 1.64दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि 1.65सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानु 1.66श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः । जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स 1.67हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोऽपहृत् । सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् 1.68दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहृन्नित्यसुखं निरंजनम् । यः स्वात्मतीर्थं भज