← Texts
Kashmir Shaivism (Trika / non-dual Tantra)

Bodhapanchadashika

Abhinavagupta's Bodhapanchadashika, "fifteen verses on awakening", written for beginners: the one light that shines in light and darkness alike, its power that becomes the world, and bondage and freedom as two forms of the same Lord. 15 verses and the author's closing verse.

Abhinavagupta · 15 verses

बोधपञ्चदशिका
1.1अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च 1.2स एव सर्वभूतानां स्वभावः परमेश्वरः । भावजातं हि तस्यैव शक्तिरीश्वरतामयी 1.3शक्तिश्च शक्तिमद्रूपाद्व्यतिरेकम्न वाञ्छति । तादात्म्यमनयोर्नित्यं वह्निदाहिकयोर 1.4स एव भैरवो देवो जगद्भरणलक्षणः । स्वात्मादृषे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् 1.5तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका । पूर्णत्वं सर्वभवेषु यस्या नाल्पं न चाधि 1.6एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः । विचित्रान्सृष्टिसंहारान्विधत्ते युगप 1.7अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् । एतदेव स्वतन्त्रत्वमैस्वर्यं बोधरूपता 1.8परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यतो न परिमीयते 1.9एवमस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः । स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस 1.10तेषु वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव यत् । भुवनानि तदंशाश्च सुखदुःखमतिश्च या 1.11यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् । स एव खलु संसारो मूडानां यो विभी 1.12तत्प्रसादरसादेव गुर्वागमत एव वा । शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपागतम् 1.13यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः । तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश 1.14एतौ बन्धविमोक्षौ च परमेशस्वरूपतः । न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे 1.15इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः । भैरवः सर्वभावानां स्वभावः परिशील्यते ।