← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

धनभावफलाध्यायः

13 verses · Maharshi Parashara

13.1धनभावफलं वच्मि शृणु त्वं द्विजसत्तम । धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा 13.2धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् । धनदश्च धने सौम्यः पापो धनविनाशकृत् 13.3धनाधिपो गुरुर्यस्य धनभावगतो भवेत् । भौमेन सहितो वाऽपि धनवान् स नरो भवेत् 13.4धनेशे लाभभावस्थे लाभेशे वा धनं गते । तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् 13.5धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे । गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् 13.6धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि । धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः 13.7धनलाभाधिपावस्तौ पापग्रहसमन्वितौ । जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः 13.8षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि । लाभे कुजोधने राहू राजदण्डाद् धनक्षयः 13.9लाभे जीवे धने शुक्रे धनेशे शुभसंयुते । व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः 13.10स्वभोच्चस्थे धनाधीशे जातको जनपोषकः । परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम 13.11स्थिते पारावतांशादौ धनेशे शुभसंयुते । तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते 13.12नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः । षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवे 13.13धनेशे पापसंयुक्ते धने पापसमन्विते । पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः