← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

योगकारकाध्यायः

46 verses · Maharshi Parashara

34.1कारकांशवशादेवं फलं प्रोक्तं मया द्विज । अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु 34.2केन्द्राधिपतयः सौम्या न दिशन्ति शुभं फलम् । क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त् 34.3लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम् । पञ्चमं नवमं चैव विशेषधनमुच्यते 34.4सप्तमं दशमं चैव विशेषसुखमुच्यते । त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः 34.5व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः । स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तर 34.6तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः । त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत् 34.7उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः । न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर 34.8गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते । उदासीनो बुधः ख्यातः पापा रव्यार् 34.9पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् । क्षीणेन्द्वर्कार्किभूपुत्राः प् 34.10केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः । चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तर 34.11केन्द्रकोणपती स्यातां परस्परगृहोपगौ । एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थित 34.12पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा । योगेऽस्मिन् जायते भूपो विख्यातो वा ज 34.13कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते । केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योग 34.14केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता । सा त्रिकोणाधिपत्येऽपि न केन्द्रेश 34.15केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा । तयोः सम्बन्धमात्रेण न योगं लभते नरः 34.16यद्भावेशयुतौ वापि यद्यद्भावसमागतौ । तत्तत्फलानि प्रबलौ प्रदिशेतां तमोग्रहौ 34.17यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ । नाथेनान्यतरेणाढ्यौ दृष्टौ वा योगकार 34.18कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः । के चाऽशुभप्रदाः खेटाः कृपया वदे मे म 34.19यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे । रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छुभसहायव 34.20मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ । न शुभं योगमात्रेण प्रभवेच्छनिजीवयोः 34.21पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् । शुक्रः साक्षान्निहन्ता स्यान्मारकत्व 34.22मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः । मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत 34.23जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ । राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः 34.24जीवादयो कुजश्चापि सन्ति मारकलक्षणाः । वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः 34.25भौमजीवारुणाः पापाः एक एव कविः शुभः । शनैश्चरेण जीवस्य योगो मेषभवो यथा 34.26शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः । द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडि 34.27भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः । पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः 34.28निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः । कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मन 34.29सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः । प्रभवेद्योगमात्रेण न शुभं गुरुश 34.30मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः । सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्च 34.31कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ । भार्गवेन्दुसुतावेव भवेतां योगकारकौ 34.32मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः । कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः 34.33जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ । भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ 34.34कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः । शुक्रः समः फलान्येवं विज्ञेयानि तुलोद् 34.35सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ । सूर्याचन्द्रमसावेव भवेतां योगकारकौ 34.36कुजः समः सिताद्याश्च पापा मारकलक्षणाः । एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः 34.37एक एव कविः पापः शुभौ भौमदिवाकरौ । योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः 34.38गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः । धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता 34.39कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ । मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः 34.40सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् । मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभ 34.41जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ । राजयोगकरो ज्ञेयः कविरेव बृहस्पतिः 34.42सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः । कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि 34.43मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ । महीसुतगुरू योगकारकौ च महीसुतः 34.44मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ । मीनलग्नोद् भवस्यैवं फलानि परिचिन्तये 34.45एवं भावाधिपत्येन जन्मलग्नवशादिह । शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम् 34.46अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै । देहिना च फलं वाच्यं प्रवक्ष्यामि च