← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
चन्द्रयोगाध्यायः
13 verses · Maharshi Parashara
37.1
सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात् । धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि
37.2
स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी । गुरुणा दृश्यते तत्र जातो धनसुखान
37.3
स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि । शुक्रेण दृश्यते तत्र जातो धनसुख
37.4
एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते । जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा
37.5
चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः । तत्र राजा च मन्त्री च सेनाधीशश्च
37.6
चन्द्राद् वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी । द्वाभ्यां मध्यधनो जात एकेनाऽल्पध
37.7
चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् । सुनफाख्तोऽनफाख्यश्च यो
37.8
राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः । स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः
37.9
भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् । सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः
37.10
उत्पन्नसुखभुग् दाता धनवाहनसंयुतः । सद्भृत्यो जायते नूनं जनो दुरधराभवः
37.11
चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः । कश्चित् स्याद्वा विना चन्द्रं
37.12
योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः । बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः
37.13
अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः । स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत्
← विविधयोगाध्यायः
रवियोगाध्यायः →