← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
राजसम्बन्धयोगाध्यायः
15 verses · Maharshi Parashara
40.1
राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते । अमात्यकारकेणापि प्रधानत्वं नृपालये
40.2
लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते । राज्यभावे तदा विप्र प्रधानत्वं नृपालये
40.3
अमात्यकारकेणापि कारकेन्द्रेण संयुते । तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रु
40.4
अमात्यकारके विप्र सबले शुभसंयुते । स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्
40.5
अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा । राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः
40.6
आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके । तदा राजकृपायुक्तो जातो राजाश्रितः सुखी
40.7
कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम । तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते
40.8
कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते । भाग्यपेन युते दृष्टे राजमन्त्र
40.9
कारके जन्मराशीशे लग्नगे शुभसंयुते । मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः
40.10
कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा । दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत्
40.11
भाग्यभावपदे लग्ने कारके नवमेऽपि वा । राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम
40.12
लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते । कारके शुभसंयुक्ते लाभस्तस्य नृपालयात्
40.13
लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते । प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तित
40.14
कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम । यस्य जन्मनि जातोऽयं राजचिह्नेन संयुत
40.15
लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते । केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भव
← राजयोगाध्यायः
विशेषधनयोगाऽध्यायः →