← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

विशेषलग्नाध्यायः

24 verses · Maharshi Parashara

5.1अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम । भावहोराघटीसञ्ज्ञलग्नानीति पृथक् पृथक् 5.2सूर्योदयं समारभ्य घटिकानां तु पञ्चकम् । प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि 5.3इष्टं घट्यादिकं भक्त्वा पञ्चभिर्भादिकं फलम् । योज्यमौदयिके सूर्ये भावलग्नं स्फुट 5.4तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज । प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षत 5.5इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् । योज्यमौदयिके भानौ होरालग्नं स्फु 5.6कथयामि घटीलग्नं शृनु त्वं द्विजसत्तम । सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् 5.7एकैकघटिकामानात् लग्नं यद्याति भादिकम् । तदेव घटिकालग्नं कथितं नारदादिभिः 5.8राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः । योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् 5.9क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् । ये ग्रहा यत्र भे तत्र ते स्थाप्या 5.10वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः । यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् 5.11ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् । समलग्नप्रसूतानाम् मीनादेरपसव्यतः 5.12मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः । तथैव होरालग्नान्तं गणयित्वा ततः परम् 5.13ओजत्वेन समत्वेन सजातीये उभे यदि । तर्हि सङ्ख्ये योजयीत वैजात्ये तु वियोजयेत् 5.14मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः । एतत्प्रयोजनं वक्ष्ये शृणु त्वं द्विजपु 5.15यत्सङ्ख्यो वर्णदो लग्नात् तत्तत्सङ्ख्याक्रमेण तु । क्रमव्युत्क्रमभेदेन दशा स्याद 5.16पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके । यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जी 5.17रुद्रशूले यथैवायुर्मरणादि निरूप्यते । तथैव वर्णदस्यापि त्रिकोणे पापसङ्गमे 5.18वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् । वर्णदात् सप्तमाद् भावात् कलत्रायुर्वि 5.19एकादशादग्रजस्य तृतीयात्तु यवीयसः । सुतस्य पञ्चमे विद्यान्मातुश्चतुर्थभावतः 5.20पितुश्च नवमाद् भावादायुरेवं विचिन्तयेत् । शूलराशिदशायां वै प्रबलायामरिष्टकम् 5.21एवं तन्वादिभावानां कर्तव्या वर्णदा दशा । पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम 5.22ग्रहाणां वर्णदा नैव राशीनां वर्णदा दशा । कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वद 5.23एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् । क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि 5.24स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिहोच्यते । भावहोरादिलग्नानां सर्वत्रैव समक्रिया