← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

चरादिदशाफलाध्यायः

97 verses · Maharshi Parashara

50.1चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज । शुभाऽशुभफलं तासां कथयामि तवाऽग्र 50.2लग्नादिद्वादशान्तानां भावानां फलकीर्तने । तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत 50.3बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् । फलं मध्यबले मध्यं बलहीने विपर्ययः 50.4यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके । पापखेटयुते विप्र तद्दशा दुःखदायिका 50.5तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः । शुभखेटयुते तत्र जायते च पराजयः 50.6लाभस्थे च शुभे पापे लाभो भवति निश्चितः । यदा दशाप्रदो राशिः शुभखेटयुतो द्विज 50.7शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् । पापयुक्ते शुभक्षेत्रे पूर्वं शुभमस 50.8पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् । पापक्षेत्रे पापयुक्ते सा दशा सर् 50.9शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज 50.10पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते । शुभक्षेत्रे शुभं वाच्यं पापर्क्ष 50.11द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् । पापे तत्र गते ज्ञेयमशुभं तद्दशाफ 50.12चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे । धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे 50.13विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् । पाके भोगे च पापाढ्ये देहपीडा मनोव 50.14सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता । चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रप 50.15दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् । पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिक 50.16उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् । केन्द्रस्थानगते सौम्ये लाभः शत्रुज 50.17जन्मकालग्रहस्थित्या सगोचगग्रहैरपि । विचारितैः प्रवक्तव्यं तत्तद्राशिदशाफलम् 50.18यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः । तद्दशा शुभदा प्रोक्ता विपरीते विपर 50.19त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् । तद्दशायां च वक्तव्यं फलं दैवविदा स 50.20मेषकर्कतुलानक्रराशीनां च यथाक्रमम् । बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिका 50.21पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे । स्थिते सति महाशोको बन्धनव्यसनामयाः 50.22उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः । तच्छून्यं चेदसौख्यं स्यात्तद्दशा 50.23बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् । प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् 50.24रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि । तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् 50.25भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि । तद्राशौ वा युते नीचे पापे मृत्युभयं व 50.26भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे । यदा भुक्तिदशा प्राप्ता तदा सौख्यं 50.27नगरग्रामनाथत्वं पुत्रलाभं धनागमम् । कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् 50.28पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि । तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम 50.29सितासितभयुग्माश्च सूर्यस्य रिपुराशयः । कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः 50.30घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् । कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः 50.31वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः । सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः 50.32मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः । एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज 50.33ये राजयोगदा ये च शुभमध्यमता ग्रहाः । यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप् 50.34तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् । शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः 50.35गता शुभदशामध्यं दशा सौम्यस्य शोभना । शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा 50.36आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् । प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं व 50.37आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् । शुभराशौ शुभारम्भे दशा स्यादतिशोभना 50.38शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता । शुभारम्भे कथा केति प्रारम्भस्य फलं वद 50.39आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज । नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् 50.40यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः । तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः 50.41भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम । धनधान्यादिहानिश्च देहे रोगभयं तथा 50.42राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् । स्वभं तत्र समारम्भस्तद्दशायां शुभं 50.43यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः । यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष 50.44शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः । दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽप 50.45इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम । दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फल 50.46राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने । दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते 50.47तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् । एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुध 50.48राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः । तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प् 50.49दशारम्भो दशान्तो वा मारके चेन्न शोभनम् । तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः 50.50यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् । गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिक 50.51चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् । भौमकेतू तत्र यदि वधोऽग्नेर्महती 50.52चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः । दशारम्भे दशान्ते च द्वितीयस्थमिदं 50.53एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् । यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभा 50.54तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते । यदि पश्येद्ग्रहस्तन्न विपरीतार्गल 50.55तद्भावस्य दशायास्तु विपरीतफलं भवेत् । सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विज 50.56यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः । स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमख 50.57यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति । स्यातद्भावदशाकाले धनलाभो महत्तरः 50.58यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः । यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशन 50.59पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् । यस्मात्त्रिकोङ्गा रिःफरन्ध्रेशार्का 50.60पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे । विदेशभ्रमणं क्लेशो भयं चैव पदे पदे 50.61तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः । रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःस 50.62यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् । पशुहानिस्तत्र भौमे गृहदाहः प्रम 50.63शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् । सर्वस्वहरणं राहौ विषचौरादिजं भयम् 50.64यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् । यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः 50.65विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः । यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः 50.66पुत्रदारादिसम्प्राप्तिर्नृपपूजा मह्त्तरा । यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स 50.67तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः । यस्मिन् गुरुर्वा शुक्रोवा शुभेशो 50.68कल्याणं सर्वसम्पत्तिर् देवब्राह्मणतर्पनम् । यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रह 50.69वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी । तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः 50.70पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् । तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस 50.71आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् । लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः 50.72सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् । एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तय 50.73एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि । भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम 50.74परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि । मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस 50.75तत्कालसुहृदो गेहे उदासीनस्य भे तथा । शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे 50.76तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके । नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे 50.77व्यवस्थितस्य खेटस्य समरे पीडितस्य च । गाढपूढस्य च दशापचितिः स्वगुणैः फलम् 50.78परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः । सम्पूर्णाख्या दशा तस्य राज्यभूग्यशुभप्रदा 50.79लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा । तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च 50.80पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा । अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु 50.81रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा । अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहि 50.82मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा । नीचांतादुच्चभागान्तं भषट्के मध्य 50.83दशा चारोहिणी नीचरिपुभांशगतस्य च । अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी 50.84नामानुरूपफलदाः पाककाले दशा इमाः । भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः 50.85परेषामपि दायेषु भग्योपक्रममुन्नयेत् । जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः 50.86सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् । दुर्बलानसमर्थांश्च फलदानेषु यागतः 50.87तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः । स्वकेन्द्रादिजुषां तेषां पूर्णार्द्ध 50.88शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः । उभयोदयराशिस्थदशा मध्यफलप्रदा 50.89पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः । निसर्गतश्च तत्काले सुहृदां हरणे शुभ 50.90सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् । दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षक 50.91भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् । एकैकराशेर्या तत्र सुहृत्स्वक्षेत्र 50.92तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् । दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या 50.93तस्यामनर्थकलहं रोगमृत्युभयादिकम् । बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके 50.94वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् । भावयोजनया विद्यात्सुतस्त्र्यादि 50.95धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः । शुभपापनशाभेदाच्छुभपापयुतैरपि 50.96इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् । एवं सर्वग्रहाणां च स्वां स्वामन्तर्द 50.97स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् । अन्तरन्तर्दशां स्वीयां विभज्यैवं पुन