← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः
73 verses · Maharshi Parashara
52.1
स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके । स्वदशायां स्वभुक्तौ च धन
52.2
नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् । द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत
52.3
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्
52.4
सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । विवाहं शुभकार्यं च धनधान्यस
52.5
गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् । तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धन
52.6
पुत्रलाभसुखं चैव सौख्यं राजसमागमम् । महाराजप्रसादेन इष्टसिद्धिसुखवाहम्
52.7
क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् । वैषम्यं जनसंवादं भृत्यवर्गविनाशनम्
52.8
विरोधं राजकलहं धनधान्यपशुक्षयम् । षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम्
52.9
बन्धनं रोगपीडां च स्थानविच्युतिकारकम् । दुःस्थानं चापि चित्तेन दायादजनविग्रहम्
52.10
निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् । मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत
52.11
दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते । भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम्
52.12
राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् । विविआहं यज्ञदीक्षां च स
52.13
वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जित
52.14
अकाले भोजनं चैव देशाद्देशं गमिष्यति । द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।
52.15
सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे । लग्नात्केन्द्रत्रिकोणे वा शुभक
52.16
भूलाभं कृषिलाभं च धनधान्यविवर्धनम् । गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत्
52.17
लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् । भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष
52.18
बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् । आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा
52.19
दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते । आधिपत्यबलैर्हीने क्रूरबुद्धिं म
52.20
कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् । भ्राऋवगविरोधं च कर्मनाशमथापि वा
52.21
नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः । द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम्
52.22
सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च । शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदा
52.23
सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे । आदौ द्विमासपर्यन्तं धननाशो महद्
52.24
चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् । तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके
52.25
देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् । लग्नादुपचये राहौ योगकारकसंयुते
52.26
दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् । भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम्
52.27
पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम् । दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते
52.28
बन्धनं स्थाननाशश्च कारागृहनिवेशनम् । चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम्
52.29
चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनम् । गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम्
52.30
द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते । अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत्
52.31
दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् । कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्य
52.32
सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मित्रस्य वर्गस्थे विवा
52.33
धनधान्यादिलाभ च पुत्रलाभं महत्सुखम् । महाराजप्रसादेन इष्टकार्यार्थलाभकृत्
52.34
ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् । भाग्यकर्माधिपवशाद्राज्यलाभं वदेद्
52.35
नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् । दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा
52.36
दीनधर्मक्रियायुक्तो देवताराधनप्रियः । गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः
52.37
राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते । दारपुत्रादिपीडा च देहपीडा महद्भयम्
52.38
राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् । पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम्
52.39
स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् । गवां कपिलवर्णानां दानेनारोग्यमाद
52.40
सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । शत्रुनाशो महत्सौख्यं स्वल्पधान
52.41
विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् । स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसम
52.42
गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया । राजसन्मानकीर्तिश्च नानावस्त्रधनागमम्
52.43
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । वातशूलमहाव्याधिज्वरातीसारपीडनम्
52.44
बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् । अकश्मात्कलहश्चैव दायादजनविग्रहः
52.45
भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् । अन्ते क्लेशकरं चैव नीचे तेषा
52.46
पितृमातृवियोगश्च गमनागममं तथा । द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत्
52.47
कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् । छागदानं प्रकुर्वीत सर्वसम्पत्प्र
52.48
सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा । केन्द्रत्रिकोणलाभस्थे ब
52.49
राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् । महारजप्रसादेन वाहनाम्बरभूषणम्
52.50
पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् । भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत
52.51
भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् । सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम्
52.52
धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः । दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम
52.53
वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् । स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा
52.54
भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः । दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा
52.55
देहपीडा मनस्तापो दारपुत्रादिपीडनम् । भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखाव
52.56
अन्ते तु राजभीतिश्च गमनागमनं तथा । द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम्
52.57
विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् । रजतप्रतिमादानं कुर्यादारोग्यसिद्धये
52.58
सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा । अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम्
52.59
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् । मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदे
52.60
अथाष्टमव्यये चैवं दायेशात्पापसंयुते । कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः
52.61
स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः । विदेशगमनं चैव शत्रुपीडा महद्भयम्
52.62
लग्नादुपचये केतौ योगकारकसंयुते । शुभांशे शुभवर्गे च शुभकर्मफलोदयः
52.63
पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् । विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखा
52.64
द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् । दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये
52.65
सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा । स्वोच्चे मित्रस्ववर्गस्थेऽभी
52.66
ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् । राज्यलाभो महोत्साहश्छत्रचामरवैभवम्
52.67
गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् । विद्रुमादिरत्नलाभो मुक्तावस्त्रादि
52.68
चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् । उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः
52.69
षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते । राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम्
52.70
भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् । अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा
52.71
बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् । भार्गवे द्यूननाथे तु देहे जाड्यं रुज
52.72
रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत
52.73
श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् । ततः शान्तिभवाप्नोति शङ्करस्य प
← अथाऽन्तर्दशाध्यायः
चन्द्रान्तर्दशाफलाध्यायः →