← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
त्रिकोणशोधनाध्यायः
5 verses · Maharshi Parashara
67.1
एवं सलग्नखेटानां विधायाष्टकवर्गकम् । त्रिकोणशोधनं कुर्यादादौ सर्वंषु राशिषु
67.2
त्रिकोणं कथ्यते विप्र मेषसिंहधनूंष्यथ । वृषकन्यामृगस्याश्च युग्मतौलिघटास्तथा
67.3
कर्कवृश्चिकमीनाश्च त्रिकोणाः स्युः परस्परम् । अधोऽधः सर्वराशीनामष्टवर्गफलं न्यसे
67.4
त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् । एकस्मिन् भवने शून्यं तत् त्रिक
67.5
समत्वे सर्वगेहेषु सर्वं संशोधयेद् बुधः । पश्चात् विपश्चिता कार्यमेकाधिपतिशोधनम्
← अथाष्टकवर्गाध्यायः
इकाधिपत्यशोधनाध्यायः →