← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

अथाऽष्टवर्गायुर्दायाध्यायः

4 verses · Maharshi Parashara

71.1अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् । दिनद्वयं विरेखायां रेखायां सार्धवासरम 71.2दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् । वेदतुल्यासु रेखासु सार्धसप्तदिनं स्म 71.3द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा । षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः 71.4एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् । तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम्