← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

रश्मिफलाध्यायः

23 verses · Maharshi Parashara

73.1अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम । दिन् नवेष्विषुसप्ताष्टशराः स्वोच्च 73.2नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः । नीचोनं तु ग्रहं भार्धाधिकं चक्राद्वि 73.3स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः । अपरैरत्र संस्कारविशेषः कथितो यथा 73.4स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः । स्वमे त्रिघ्ना द्विसंभक्ता अध 73.5वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः । पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः क 73.6अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः । शनिशुक्रौ विना ताराग्रहा अस्ते गता 73.7विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज । रश्मियोगवशादेवं फलं वाच्यं विचक्षण 73.8एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि । दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तम 73.9परतो दशकं यावत् निर्धना भारवासकाः । स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि 73.10अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः । द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश 73.11चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः । चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषक 73.12कुलोचितक्रियासक्तो धनविद्यासमन्वितः । रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः 73.13स्ववंशमुख्यो धनवानित्याह भगवान् विधिः । परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः 73.14कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् । पञ्चाशज्जनपालश्चेदेकविंशतिरश्म 73.15दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु । सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मय 73.16आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः । राजप्रियश्च तेजस्वी जनैश्च बहुभिर्व 73.17अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि । जनानां शतमारब्य सहस्रावधिपोषकः 73.18अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि । तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् 73.19एवं प्रसूतिकालोत्थनभोगकरसम्भवम् । कुलक्रमनुसारेण जातकस्य फलं वदेत् 73.20क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते । शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारत 73.21उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः । नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः 73.22सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज । शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् 73.23रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति । तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्य