← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

पूर्वजन्मशापद्योतनाध्यायः

111 verses · Maharshi Parashara

83.1महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् । अधुना श्रोतुमिच्छामि त्वत्तो वे 83.2अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने । अपुत्रः केन पापेन भवतीति वद प्रभ 83.3जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् । अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्य 83.4साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया । यथोमया हि पृष्टेन शिवेन कथितं पुरा 83.5केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् । तेषां च रक्षणोपायं कृपया नाथ मे वद 83.6साधु पृष्टं त्वया देवि कथयामि तवाऽधुना । सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् 83.7गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च । सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता 83.8रव्यारराहुशनयः सबलाः पुत्रभावगाः । तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः 83.9पुत्रस्थानगते राहौ कुजेन च निरीक्षिते । कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः 83.10पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने । चन्द्रेण संयुते दृष्टे सर्पशापात् सु 83.11कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते । लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः 83.12कारके भौमसंयुक्ते लग्ने च राहुसंयुते । पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्ष 83.13भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने । राहुमान्दियुते लग्ने सर्पशापात् सुतक्षय 83.14पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते । सौम्यदृष्टे युते वाऽपि सर्पशापात् सु 83.15पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः । निर्बलौ पुत्रलग्नेशौ सर्पशापात् 83.16लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते । कारके राहुयुक्ते वा सर्पशापात् सुतक्षय 83.17ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता । तद्दोषपरिहारार्थं नागपूजां समारभेत् 83.18स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः । नागमूर्ति सुवर्णेन कृत्वा पूजां स 83.19गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः । एवं कृते तु नागेन्द्रप्रसादात् वर्धते क 83.20पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते । पार्श्वयोः क्रूरसम्बन्धे पितृशापात् स 83.21पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते । क्रूरान्तरे पापदृष्टे पितृशापात् सुतक् 83.22भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते । पुत्रे लग्ने च पापाढ्ये पितृशापात् सुत 83.23लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते । पुत्रे लग्ने पापयुते पितृशापात् सुत 83.24पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे । पुत्रे लग्ने च पापाढ्ये पितृशापात् 83.25पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः । लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशन 83.26पितृस्थानाधिपे दुःस्थे कारके पापराशिगे । सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः 83.27लग्नपञ्चमभावस्था भानुभौमशनैश्चराः । रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः 83.28लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने । पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्ष 83.29व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे । पितृस्थानाधिपे रन्ध्रे पितृशापात् सु 83.30रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ । कारके राहुसंयुक्ते पितृशापात् सुतक्षयः 83.31तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् । ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम 83.32अथवा कन्यकादानं गोदानं च समाचरेत् । एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः 83.33वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा । ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः 83.34पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे । हिबुके पञ्चमे पापे मातृशापात् सुतक्ष 83.35लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे । नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः 83.36पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे । चन्द्रे च पापसंयुक्ते मातृशापात् सुत 83.37पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते । लग्ने पुत्रे च पापाढ्ये मातृशापा 83.38पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते । भाग्ये वा पुत्रभावे वा मातृशापात् सु 83.39मातृस्थानाधिपे भौमे शनिराहुसमन्विते । चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः 83.40लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः । पितृनाशाधिपौ लग्ने मातृशापात् 83.41षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते । चन्द्रजीवौ पापयुक्तौ मातृशापात् सुत 83.42पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम । मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्ष 83.43नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे । चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक् 83.44चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते । चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सु 83.45लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः । मातृलग्नाधिपौ दुःस्थौ मातृशापात् 83.46नाशस्थानं गते जीवे कुजराहुसमन्विते । पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः 83.47एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता । ततः सन्तानरक्षार्थं कर्त्तव्या शान्त 83.48सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका । रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रय 83.49ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् । कर्तव्यं भक्तियुक्तेन चाष्टोत्तर 83.50एवं कृते महादेवि शापान्मोक्षो भविष्यति । सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायत 83.51अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् । यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कु 83.52भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते । पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् स 83.53लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे । कारके नाशभावस्थे भ्रातृशापात् सुतक् 83.54भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि । नाशस्थाने तु चन्द्रारौ भ्रातृशापात् 83.55तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि । रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्ष 83.56पापमध्यगते लग्ने पापमध्ये सुतेऽपि च । लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षय 83.57कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे । पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक 83.58पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते । रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सु 83.59लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते । लग्नभ्रातृसुते पापे भ्रातृशापात् स 83.60भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा । राहुमन्देयुते दृष्टे भ्रातृशापात् 83.61नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते । रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् स 83.62भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः । चान्द्रायण्स्ं चरेत् पश्चात् कावेर्य् 83.63अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् । पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात 83.64एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः । ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश 83.65पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते । लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः 83.66लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ । ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्ष 83.67लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने । लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक् 83.68ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते । शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक् 83.69तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् । वापीकूपतडागादिखननं सुतबन्धुनम् 83.70पुत्रवृद्धिर्भवेत्तस्य सम्पद्वृद्धिः प्रजायते । इति योगवशादेवं शान्तिं कुर्याद् 83.71बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते । तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्त 83.72गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः । धर्मस्थानाधिपे नाशे ब्रह्मशापात् सु 83.73धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे । जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक् 83.74धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे । राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः 83.75जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे । पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुत 83.76पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते । पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् स 83.77मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते । पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक 83.78लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते । व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुत 83.79तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः । ब्रह्मकृच्छ्रत्र्यं कृत्वा धनु 83.80पञ्चरत्नानि देयानि सुवर्णसहितानि च । ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत 83.81एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः । मुक्तशापो विशुद्धात्मा स नरः सुखमेधते 83.82दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ । पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षय 83.83नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः 83.84पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते । कारके पापसंयुक्ते पत्नीशापात् सुतक्ष 83.85कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे । पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक् 83.86भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे । लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षय 83.87भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे । गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन् 83.88पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते । व्यये लग्ने धने पापे पत्नीशापात् स 83.89सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ । लग्ने राहुसमायुक्ते पत्नीशापात् सुतक 83.90धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने । शनिराहुयुते दृष्टे पत्नीशापात् सुतक्ष 83.91नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ । कारके पापसंयुक्ते पत्नीशापात् सुतक्ष 83.92लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् । रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सु 83.93शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् । कन्याभावे च श्रीविष्णोर्मूर्ति लक् 83.94दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् । शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द 83.95ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते । कर्मलोपे पितृणां च प्रेतत्वं तस् 83.96तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते । अतोऽत्र तादृशान् योगात् जन्मलग्नात् 83.97पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे । लग्ने व्यये राहुजीवौ प्रेतशापात् 83.98पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे । कारके नाशभावे च प्रेतशापात् सुतक्षयः 83.99लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः । पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् स 83.100लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने । गुरौ च नाशराशिस्थे प्रेतशापात् स 83.101लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा । लग्नेशे मृत्युराशिस्थे प्रेतशापात् 83.102पुत्रस्थानाधिपे नीचे कारके नीचराशिगे । नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः 83.103लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते । व्यये भौमेन संयुक्ते प्रेतशापात् सु 83.104कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते । मन्दमान्दियुते लग्ने प्रेतशापात् स 83.105वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते । कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः 83.106अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् । कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर 83.107धेनुं रजतपात्रं च तथा नीलमणिं द्विज । ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षि 83.108एवं कृते मनुष्यस्य शापमोक्षा प्रजायते । पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जा 83.109तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् । जीवचन्द्रकृते विप्र मन्त्रयन्त्रौ 83.110राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् । गोदानात् केतुजे दोषे रुद्रजापात् कुजा 83.111सर्वदोषविनाशाय शुभसन्तानलब्धये । हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज