← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

अथोपसंहाराध्यायः

25 verses · Maharshi Parashara

97.1यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने । तदेव शौनकादिभ्यो नारदः प्राह साद 97.2ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज । नासूयकाय दातव्यं परनिन्दारताय वा 97.3जडाय दुर्विनीताय नाज्ञाताय कदाचन । देयमेतत्सुरिलाय भक्ताय सत्यवादिने 97.4मेधाविने विनीताय सम्यग् ज्ञातकुलाय च । पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमु 97.5जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् । होराशास्त्रमिदं सम्यक् स विजानाति 97.6होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः । शुभाऽशुभं फलं वक्ति सत्यं तद 97.7ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः । तेषांमायुर्बलं वित्तं वृद्धिमेत 97.8इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् । नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् 97.9श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने । ततः प्रचरितं पृथ्व्यामादृतं सादरं ज 97.10ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः । सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य 97.11विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् । अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा 97.12भावानां च फलाध्यायो भावेशोत्थफलं तथा । अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् 97.13ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् । पदं चोपपदं तद्वदर्गला त्वथ कारकाः 97.14कारकांशफलं योगकारकाध्याय एव च । नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः 97.15राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः । विशेषधनयोगाश्च योगा दारिद्र्यकारकाः 97.16आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः । नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः 97.17अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः । सूर्याद्यष्टकवर्गश्च त्रिकोणपरिश 97.18एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् । ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च 97.19ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् । समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः 97.20ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा । महापुरुषचिह्नानि महाभूतफलानि च 97.21गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् । जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च 97.22स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च । पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः 97.23सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः । जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रति 97.24तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः । प्रसवस्य विकाराश्च कथिताः शान्तिसंय 97.25एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् । विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु