← Brahma Sutras
Brahma Sutras

चतुर्थोऽध्यायः (फलाध्यायः)

78 sutras · Badarayana

4.1.1आवृत्तिरसकृदुपदेशात् 4.1.2लिङ्गाच्च 4.1.3आत्मेति तूपगच्छन्ति ग्राहयन्ति च 4.1.4न प्रतीके न हि सः 4.1.5ब्रह्मदृष्टिरुत्कर्षात् 4.1.6आदित्यादिमतयश्चाङ्ग उपपत्तेः 4.1.7आसीनः संभवात् 4.1.8ध्यानाच्च 4.1.9अचलत्वं चापेक्ष्य 4.1.10स्मरन्ति च 4.1.11यत्रैकाग्रता तत्राविशेषात् 4.1.12आ प्रयाणात्तत्रापि हि दृष्टम् 4.1.13तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् 4.1.14इतरस्याप्येवमसंश्लेषः पाते तु 4.1.15अनारब्धकार्य एव तु पूर्वे तदवधेः 4.1.16अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् 4.1.17अतोऽन्यापि ह्येकेषामुभयोः 4.1.18यदेव विद्ययेति हि 4.1.19भोगेन त्वितरे क्षपयित्वाथ संपद्यते 4.2.1वाङ्मनसि दर्शनाच्छब्दाच्च 4.2.2अत एव च सर्वाण्यनु 4.2.3तन्मनः प्राण उत्तरात् 4.2.4सोऽध्यक्षे तदुपगमादिभ्यः 4.2.5भूतेषु तच्छ्रुतेः 4.2.6नैकस्मिन्दर्शयतो हि 4.2.7समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य 4.2.8तदापीतेः संसारव्यपदेशात् 4.2.9सूक्ष्मं प्रमाणतश्च तथोपलब्धेः 4.2.10नोपमर्देनातः 4.2.11अस्यैव चोपपत्तेरेष ऊष्मा 4.2.12प्रतिषेधादिति चेन्न शारीरात् 4.2.13स्पष्टो ह्येकेषाम् 4.2.14स्मर्यते च 4.2.15तानि परे तथा ह्याह 4.2.16अविभागो वचनात् 4.2.17तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार् 4.2.18रश्म्यनुसारी 4.2.19निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च 4.2.20अतश्चायनेऽपि दक्षिणे 4.2.21योगिनः प्रति च स्मर्येते स्मार्ते चैते 4.3.1अर्चिरादिना तत्प्रथितेः 4.3.2वायुमब्दादविशेषविशेषाभ्याम् 4.3.3तडितोऽधि वरुणः संबन्धात् 4.3.4आतिवाहिकास्तल्लिङ्गात् 4.3.5उभयव्यामोहात्तत्सिद्धेः 4.3.6वैद्युतेनैव ततस्तच्छ्रुतेः 4.3.7कार्यं बादरिरस्य गत्युपपत्तेः 4.3.8विशेषितत्वाच्च 4.3.9सामीप्यात्तु तद्व्यपदेशः 4.3.10कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् 4.3.11स्मृतेश्च 4.3.12परं जैमिनिर्मुख्यत्वात् 4.3.13दर्शनाच्च 4.3.14न च कार्ये प्रतिपत्त्यभिसंधिः 4.3.15अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च 4.3.16विशेषं च दर्शयति 4.4.1संपद्याविर्भावः स्वेन शब्दात् 4.4.2मुक्तः प्रतिज्ञानात् 4.4.3आत्मा प्रकरणात् 4.4.4अविभागेन दृष्टत्वात् 4.4.5ब्राह्मेण जैमिनिरुपन्यासादिभ्यः 4.4.6चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः 4.4.7एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः 4.4.8संकल्पादेव तु तच्छ्रुतेः 4.4.9अत एव चानन्याधिपतिः 4.4.10अभावं बादरिराह ह्येवम् 4.4.11भावं जैमिनिर्विकल्पामननात् 4.4.12द्वादशाहवदुभयविधं बादरायणोऽतः 4.4.13तन्वभावे सन्ध्यवदुपपत्तेः 4.4.14भावे जाग्रद्वत् 4.4.15प्रदीपवदावेशस्तथा हि दर्शयति 4.4.16स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि 4.4.17जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च 4.4.18प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः 4.4.19विकारवर्ति च तथा हि स्थितिमाह 4.4.20दर्शयतश्चैवं प्रत्यक्षानुमाने 4.4.21भोगमात्रसाम्यलिङ्गाच्च 4.4.22अनावृत्तिः शब्दादनावृत्तिः शब्दात्