← Devi Mahatmya
Devi Mahatmya

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः

29 verses · Markandeya Purana

13.1ऋषिरुवाच 13.2एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवं प्रभावा सा देवी ययेदं धार्यते जगत् 13.3विद्या तथैव क्रियते भगवद्विष्णुमायया । तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः 13.4मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे । तामुपैहि महाराज शरणं परमेश्वरीम् 13.5आराधिता सैव नृणां भोगस्वर्गापवर्गदा 13.6मार्कण्डेय उवाच 13.7इति तस्य वचः श्रुत्वा सुरथः स नराधिपः 13.8प्रणिपत्य महाभागं तमृषिं संशितव्रतम् । निर्विण्णोऽतिममत्वेन राज्यापहरणेन च 13.9जगाम सद्यस्तपसे स च वैश्यो महामुने । सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः 13.10स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् । तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्त 13.11अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः । निराहारौ यतात्मानौ तन्मनस्कौ समाहि 13.12ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् । एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः 13.13परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका 13.14देव्युवाच 13.15यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन । मत्तस्तत्प्राप्यतां सर्वं परितुष्टा 13.16मार्कण्डेय उवाच 13.17ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि । अत्रैव च निजं राज्यं हतशत्रुबलं बलात् 13.18सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः । ममेत्यहमिति प्राज्ञः सङ्गविच्युति 13.19देव्युवाच 13.20स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् 13.21हत्वा रिपूनस्खलितं तव तत्र भविष्यति 13.22मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः 13.23सावर्णिको मनुर्नाम भवान्भुवि भविष्यति 13.24वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः 13.25तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति 13.26मार्कण्डेय उवाच 13.27इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् 13.28बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता । एवं देव्या वरं लब्ध्वा सुरथः क्षत 13.29सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः