← Hatha Yoga Pradipika
Hatha Yoga Pradipika

प्रथमोपदेशः

70 verses · Svatmarama

1.1श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम् 1.2प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते 1.3भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकर 1.4हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प 1.5श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः 1.6मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्प 1.7कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः 1.8अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा 1.9इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते 1.10अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः 1.11हठविद्या परं गोप्या योगिना सिद्धिमिच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प् 1.12सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जि 1.13अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेसजन्त 1.14एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगमेव समभ्यसेत् 1.15अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यत 1.16उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः 1.17अथ यमनियमाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं 1.18तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् 1.19अथ आसनम् हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं 1.20वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्त 1.21जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते 1.22सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमु 1.23एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् 1.24गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विद 1.25पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक् 1.26कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर् 1.27पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनमुच्यत 1.28वामोरुमूलार्पितदक्षपादं जानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिता 1.29मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिन 1.30प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाट 1.31इति पश्चिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे 1.32धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खे मा 1.33हरति सकलरोगानाशु गुल्मोदरादीन् अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भ 1.34उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् 1.35चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् 1.36सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सि 1.37अथ सिद्धासनम् योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादमथैकमे 1.38मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिद 1.39एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासन 1.40यमेष्विव मिताहारमहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदु 1.41चतुरशीतिपीठेषु सिद्धमेव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् 1.42आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप् 1.43किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भक 1.44तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयमनायासात्स्वयमेवोपजायते 1.45नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः 1.46अथ पद्मासनम् वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विध 1.47उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृश 1.48नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं 1.49इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि 1.50कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्या 1.51पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र सं 1.52अथ सिंहासनम् गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल् 1.53हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत 1.54सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् 1.55अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा स 1.56पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविन 1.57एवमासनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् 1.58आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानमभ्यासानुक्रमो हठे 1.59ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या वि 1.60सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते 1.61कट्वाम्लतीक्ष्णलवणोष्णहरीतशाक सौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकु 1.62भोजनमहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणमम्लयुक्तं कदशनशाकोत्कं वर्ज् 1.63वह्निस्त्रीपथिसेवानामादौ वर्जनमाचरेत् 1.64तथा हि गोरक्षवचनम् वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवा 1.65गोधूमशालियवषाष्टिकशोभनान्नं क्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ् 1.66पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् 1.67युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्वयोग 1.68क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः 1.69न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः 1.70पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि