← Hatha Yoga Pradipika
Hatha Yoga Pradipika
तृतीयोपदेशः
130 verses · Svatmarama
3.1
सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली
3.2
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयो
3.3
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम्
3.4
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचक
3.5
तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं
3.6
महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः
3.7
करणी विपरीताख्या वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम्
3.8
आदिनाथोदितं दिव्यमष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि
3.9
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा
3.10
अथ महामुद्रा पादमूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ
3.11
कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः । यथा दण्डहतः सर्पो दण्डाकारः प्रजायते
3.12
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया
3.13
ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः
3.14
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
3.15
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्तुल्या भवेत्सङ्ख्या ततो मु
3.16
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति
3.17
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽ
3.18
कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित्
3.19
अथ महाबन्धः पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य द
3.20
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुमाकुञ्च्य मनोमध्ये नियोज
3.21
धारयित्वा यथाशक्ति रेचयेदनिलं शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत्
3.22
मतमत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् । राजदन्तस्थजिह्वाया बन्धः शस्तो भवेदिति
3.23
अयं तु सर्वनाडीनामूर्ध्वं गतिनिरोधकः । अयं खलु महाबन्धो महासिद्धिप्रदायकः
3.24
कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः
3.25
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ
3.26
अथ महावेधः महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः । वायूनां गतिमावृत्य निभृतं कण्ठ
3.27
समहस्तयुगो भूमौ स्फिचौ सनाडयेच्छनैः । पुटद्वयमतिक्रम्य वायुः स्फुरति मध्यगः
3.28
सोमसूर्याग्निसम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत
3.29
महावेधोऽयमभ्यासान्महासिद्धिप्रदायकः । वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः
3.30
एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम्
3.31
अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्यसंभारसन्धाय पापौघभिदुरं सदा । सम्य
3.32
अथ खेचरी कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भव
3.33
छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीस
3.34
स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समु
3.35
ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्र
3.36
एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति
3.37
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच
3.38
रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरा
3.39
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां व
3.40
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरी
3.41
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूप
3.42
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्ले
3.43
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्
3.44
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति य
3.45
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति
3.46
इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति
3.47
गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तमहं मन्ये चेतरे कुलघातकाः
3.48
गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम्
3.49
जिह्वाप्रवेशसम्भूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमरवारुणी
3.50
चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वारसस्यन्दिनी सक्षारा कटुकाम्लदुग्धसदृशी मध्वा
3.51
मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे
3.52
यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धान्तरस्थं तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्मुख
3.53
सुषिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्ज
3.54
एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी
3.55
अथ उड्डीयानबन्धः बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्यो
3.56
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते
3.57
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेस
3.58
उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते
3.59
नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयत्येव न संश
3.60
सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभावि
3.61
अथ मूलबन्धः पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूल
3.62
अधोगतिमपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः
3.63
गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायात
3.64
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संश
3.65
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात्
3.66
अपान ऊर्ध्वगे जाते प्रयाते वह्निमण्डलम् । तदानलशिखा दीर्घा जायते वायुनाहता
3.67
ततो यातो वह्न्यपानौ प्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तस्तु ज्वलनो देहजस्तथ
3.68
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां
3.69
बिलं प्रविष्टेव ततो ब्रह्मनाड्यं तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो य
3.70
अथ जलन्धरबन्धः कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं
3.71
बध्नाति हि सिराजालमधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः
3.72
जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति
3.73
कण्ठसंकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम्
3.74
मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चि
3.75
अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरारोगादिकं तथा
3.76
बन्धत्रयमिदं श्रेष्ठं महासिद्धैश्च सेवितम् । सर्वेषां हठतन्त्राणां साधनं योगिनो
3.77
यत्किंचित्स्रवते चन्द्रादमृतं दिव्यरूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जर
3.78
अथ विपरीतकरणी मुद्रा तत्रास्ति करणं दिव्यं सूर्यस्य मुखवञ्चनम् । गुरूपदेशतो ज्ञे
3.79
ऊर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरुवाक्येन लभ्यते
3.80
नित्यमभ्यासयुक्तस्य जठराग्निविवर्धनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च
3.81
अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधःशिराश्चोर्ध्वपादः क्षणं स्यात्प्रथम
3.82
क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते
3.83
अथ वज्रोली स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स
3.84
तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च व
3.85
मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिमाप्नुय
3.86
यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे । शनैः शनैः प्रकुर्वीत वायुसंचारकारणात्
3.87
नारीभगे पदद्बिन्दुमभ्यासेनोर्ध्वमाहरेत् । चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्ष
3.88
एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात्
3.89
सुगन्धो योगिनो देहे जायते बिन्दुधारणात् । यावद्बिन्दुः स्थिरो देहे तावत्कालभयं क
3.90
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं
3.91
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासय
3.92
अथ सहजोलिः सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्धगोमयसम
3.93
वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वाङ्गलेपनम् । आसीनयोः सुखेनैव मुक्तव्यापारय
3.94
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिद
3.95
अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सर
3.96
अथ अमरोली पित्तोल्बणत्वात्प्रथमाम्बुधारां विहाय निःसारतयान्त्यधाराम् । निषेव्यते
3.97
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ
3.98
अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्यदृष्
3.99
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि
3.100
तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति
3.101
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः
3.102
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रु
3.103
देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः । अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः
3.104
अथ शक्तिचालनम् कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते
3.105
उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदये
3.106
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परम
3.107
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वे
3.108
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशय
3.109
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं प
3.110
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली
3.111
पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्व
3.112
अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानय
3.113
ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्ब
3.114
सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत्
3.115
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु
3.116
भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं
3.117
मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्ग
3.118
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां
3.119
तस्मात्संचालयेन्नित्यं सुखसुप्तामरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच
3.120
येन संचालिता शक्तिः स योगी सिद्धिभाजनम् । किमत्र बहुनोक्तेन कालं जयति लीलया
3.121
ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्यभ्यासयोगि
3.122
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवमभ्यस्यतो नित्यं यमिनो यमभीः
3.123
द्वासप्ततिसहस्राणां नाडीनां मलशोधने । कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते
3.124
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसनप्राणसंयाममुद्राभिः सरला भवेत्
3.125
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धि
3.126
राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते
3.127
मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा
3.128
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी
3.129
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर
3.130
तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम्
← द्वितीयोपदेशः
समाधिलक्षणम् →