← Ishvara Pratyabhijna Karika
Ishvara Pratyabhijna Karika

ज्ञानाधिकारे द्वितीयमाह्निकम्

11 karikas · Utpaladeva

2.1ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः । साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् 2.2नित्यस्य कस्य चिद्द्रष्टुस्तस्यात्रानवभासतः । अहंप्रतीतिरप्येषा शरीराद्यवसायिनी 2.3अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी । कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः 2.4सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु । स्मृतिः केनाथ यत्रैवानुभवस्तत् 2.5यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः । यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिन 2.6ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् । संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता 2.7ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् । अथापि जडमेतस्य कथमर्थप्रकाशता 2.8अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः । चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता 2.9क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता । नान्यादृष्टेर्न साप्येका क्रमिकैकस्य 2.10तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते । नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभ 2.11द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् । पारतन्त्र्याद्ययोगाच्च तेन कर्त