← Malinivijayottara Tantra
Malinivijayottara Tantra

समयाधिकारः

135 verses · Revealed scripture (Trika agama)

8.1अथातः संप्रवक्ष्यामि यजनं सर्वकामदम् । यस्य दर्शनमात्रेण योगिनीसंमतो भवेत् 8.2तत्रादौ यागसदनं शुभे क्षेत्रे मनोरमम् । कारयेदग्निकुण्डेन वर्तुलेन समन्वितम् 8.3पञ्चविंशतिपर्वेण समन्तादर्धनाभिना । तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना 8.4ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित् । तच्च षड्विधमुद्दिष्टं भस्मस्ना 8.5भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम् । मलस्नानाय संहारक्रमेणोद्धूलयेत्तन 8.6विद्याङ्गैः पञ्चभिः पश्चाच्छिरः प्रभृति गुण्ठयेत् । अभिषेकं तु कुर्वीत मूलेनैव ष 8.7ततोऽवासाः सुवासा च हस्तौ पादौ च धावयेत् । आचम्य मार्जनं कुर्याद्विद्यया भूरिवर्ण 8.8न्यासं कृत्वा तु सामान्यामघमर्षं द्वितीयया । उपस्थानं च मालिन्या जपेच्चैकाक्षरां 8.9जलस्नानेऽपि चास्त्रेण मृदं सप्ताभिमन्त्रितम् । पूर्ववत्तनुमालभ्य मलस्नानं समाचरे 8.10विधिस्नानादिकं चात्र पूर्ववत्किं तु वारिणा । साधारणविधिस्नातो विद्यात्रितयमन्त्र 8.11तोयं विनिक्षिपेन्मूर्ध्नि मन्त्रस्नानाय मन्त्रवित् । रजसा गोधुतेनैव वायव्यं स्ना 8.12महास्त्रमुच्चरन्गच्छेद्ध्यानयुक्पदसप्तकम् । तदेव पुनरागच्छेदनुस्मृत्य परापराम् 8.13वर्षातपसमायोगाद्दिव्योऽप्येवंविधो मतः । किं तु तत्र परां मन्त्री स्रवन्तीममृतं स 8.14अस्त्रेणाङ्गुष्ठमूलात्तु वह्निमुत्थाप्य निर्दहेत् । स्वतनुं प्लावयेत्पश्चात्परयै 8.15सूर्यादौ मन्त्रमादाय गच्छेदस्त्रमनुस्मरन् । यागवेश्मास्त्रसंशुद्धं विशेच्छुचिरना 8.16तत्र द्वारपतीन्पूज्य महास्त्रेणाभिमन्त्रितम् । पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद 8.17दशस्वपि ततोऽस्त्रेण दिक्षु संकल्प्य रक्षणं । प्रविशेद्यागसदनं वह्निवद्वह्निसंयुत 8.18पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासमारभेत् । तत्रादावस्त्रमन्त्रेण कालानलसमत्व 8.19अङ्गुष्ठाग्रात्तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत् । विकीर्यमाणं तद्भस्म ध्यात् 8.20शिवबिन्दुसमाकारमात्मानमनुचिन्तयेत् । ततोऽस्य योजयेच्छक्तिं सोऽहमित्यपराजितः 8.21विद्यामूर्तिं ततो दध्यान्मन्त्रेणानेन शाङ्करि । दण्डाक्रान्तं महाप्राणं दण्डारूढ 8.22नितम्बं तदधस्ताच्च वामस्तनमधः पुनः । कण्ठं च वामशिखरं वाममुद्राविभूषितम् 8.23बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम् । एष पिण्डकरो देवि नवात्मक इति श्रुतः 8.24सर्वसिद्धिकरश्चायं सरहस्यमुदाहृतः । एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्व 8.25षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत् । क्षयरवलबीजैश्च दीप्तैर्बिन्दुविभूषितैः 8.26वक्त्राणि कल्पयेत्पूर्वमूर्ध्ववक्त्रादितः क्रमात् । प्रत्यङ्गविधिसिद्ध्यर्थं लला 8.27अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत् । इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये 8.28ऋ ।र्नासापुटे तद्वदॢ ।ल्गण्डद्वये तथा । ए ऐ अधोर्ध्वदन्तेषु ओ-औकारौ तथोष्ठयोः 8.29अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् । दक्षिणस्कन्धदोर्दण्ड कराङ्गुलिनखेषु 8.30कवर्गं विन्यसेद्वामे तद्वच्चाद्यमनुक्रमात् । टताद्यौ पूर्ववद्वर्गौ नितम्बोर्वादि 8.31पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्यनुक्रमात् । त्वग्रक्तमांससूत्रेषु यवर्गं पर 8.32शाद्यमस्थिवसाशुक्रप्राणकोपेषु पञ्चकम् । मूर्त्यङ्गानि ततो दत्त्वा शिवमावाहयेद्बु 8.33प्राणोपरि न्यसेन्नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम् । वामकर्णप्रमेयोतः सर्वसिद्धिप् 8.34सद्भावः परमो ह्येषः भैरवस्य महात्मनः । अङ्गान्यनेन कार्याणि पूर्ववत्स्वरभेदतः 8.35मूर्तिः सृष्टिस्त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः । शिवः साङ्गश्च षोढैव न्या 8.36अस्योपरि ततः शाक्तं कुर्यान्न्यासं यथा शृणु । मूर्तौ परापरां न्यस्य तद्वक्त्राणि 8.37परादित्रितयं पश्चाच्छिखाहृत्पादगं न्यसेत् । कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्र 8.38अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत् । ततस्त्वावाहयेच्छक्तिं सर्वयोगि 8.39जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः । अतिदीप्तस्तु वामाङ्घ्रिभूषितो मूर्ध्नि ब 8.40दक्षजानुयुतश्चायं सर्वमातृगणान्वितः । अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम् 8.41सद्भावः परमो ह्येष मातृणां परिपठ्यते । तस्मादेनां जपेन्मन्त्री य इच्छेत्सिद्धिमु 8.42रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः । यस्मादेषा पराशक्तिर्भेदेनानेन कीर्तिता 8.43यावत्यः सिद्धयस्तन्त्रे सर्वाः स्युरनया कृताः । अङ्गानि कल्पयेदस्याः पूर्ववत्स्व 8.44मूर्तिः सवक्त्रा शक्तिश्च विद्यात्रितय एव च । अघोर्याद्यष्टकं चेति तथा विद्याङ्ग 8.45साङ्गाश्चैव परा शक्तिर्न्यासः प्रोक्तोऽथ षड्विधः । यामलोऽयमतो न्यासः सर्वसिद्धिप 8.46वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः । वर्णमन्त्रविभेदेन पृथग्वा तत्फलार 8.47यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः । तावत्स्वप्येवमेवायं न्यासः पञ्चविधो 8.48किं तु बाह्यस्तु यो यत्र स तत्राङ्गसमन्वितः । षष्ठः स्यादिति सर्वत्र षोढैवायमुदा 8.49स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः । यागद्रव्याणि सर्वाणि कार्याणि विधिवद्बुधै 8.50ततोऽर्घपात्रमादाय भावाभावविकल्पितम् । ततश्चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं 8.51कर्तव्या यस्य संशुद्धिरन्यस्याप्यत्र वस्तुनः । तस्यानेनैव मार्गेण प्रकर्तव्या वि 8.52न चासंशोधितं वस्तु किञ्चिदप्यत्र कल्पयेत् । तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छु 8.53तदम्बुना समापूर्य षड्भिरङ्गैः समर्प्य च । अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधये 8.54आत्मानं पूजयित्वा तु कुर्यादन्तःकृतिं यथा । तथा ते कथयिष्यामि सर्वयोगिगणार्चिते 8.55आदावौआवाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् । धरां सुरोदं पोतं च कन्दश्चेति चतुष्ट 8.56एकैकाङ्गुलमेतत्स्याच्छूलस्यामलसारकम् । ततो नालमनन्ताख्यं दण्डमस्य प्रकल्पयेत् 8.57लम्बिकावधितश्चात्र शूलोर्ध्वं ग्रन्थिरिष्यते । अभित्त्वैनं महादेवि पाशजालमहार्णव 8.58न स योगमवाप्नोति शिवेन सह मानवः । धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् 8.59कोणेषु चिन्तयेन्मन्त्री आग्नेयादिष्वनुक्रमात् । गात्रकाणां चतुष्कं च दिक्षु पूर् 8.60ग्रन्थेरूर्ध्वं त्रिशूलाधो भवितव्या चतुष्किका । विद्यातत्त्वं तदेवाहुश्छदनत्रयसं 8.61कखलम्बिकयोर्मध्ये तत्तत्त्वमनुचिन्तयेत् । पद्माकृति कखतत्त्वमैश्वरं चिन्तयेद्बुध 8.62कर्णिकाकेसरोपेतं सबीजं विकसत्सितम् । पूर्वपत्रादितः पश्चाद्वामादिनवकं न्यसेत् 8.63वामा ज्येष्ठा च रौद्री च काली चेति तथा परा । कलविकरणी चैव बलविकरणी तथा 8.64बलप्रमथनी चान्या सर्वभूतदमन्यपि । मनोन्मनी च मध्येऽपि भानुमार्गेण विन्यसेत् 8.65विभ्वादिनवकं चान्यद्विलोमात्परिकल्पयेत् । विभुर्ज्ञानी क्रिया चेच्छा वागीशी ज्वा 8.66वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः । ब्रह्मविष्णुहराः पूर्वं ये शाक्ता 8.67दलकेसरमध्यस्था मण्डलानां त ईश्वराः । ध्वनि चार्केन्दुवह्नीनां संज्ञेया परिभावयेत 8.68ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् । कालाग्निकोटिवपुषमित्येवं सर्वमासनम् 8.69तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् । कखत्रयेण निर्यातं द्वादशान्तावसान 8.70चिन्तयेत्तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः । सर्वाधिष्ठायकं शुक्लमामित्येतत्परम 8.71तत्रोपरि ततो मूर्तिं विद्याख्यामनुचिन्तयेत् । आत्माख्यां च ततस्तस्यां पूर्वन्यास 8.72ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर्द्वयम् । परापरां स्वरूपेण रक्तवर्णां महाबला 8.73इच्छारूपधरां ध्यात्वा किं चिदुग्रां न भीषणाम् । अपरां वामशृङ्गे तु भीषणां कृष्णप 8.74इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम् । परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप् 8.75षड्विधेऽपि कृते शाक्ते मूर्त्यादावपि चिन्तयेत् । विद्याङ्गपञ्चकं पश्चादाग्नेय्या 8.76अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रम । शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरे 8.77किं तु शक्रादिदिक्ष्वस्त्रमन्त्रं मध्ये च लोचनम् । अघोराद्यष्टकं ध्यायेदघोर्याद् 8.78सर्वासामावृतत्वेन लोकपालांश्च बाह्यतः । सास्त्रान्स्वमन्त्रैः संचिन्त्य जपं पश्च 8.79स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् । ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्त 8.80सकृदेकैकशो मन्त्री होमकर्मप्रसिद्धये । इत्येव मानसो यागः कथितः सामुदायिकः 8.81एतत्त्रिशूलमुद्दिष्टमेकदण्डं त्रिशक्तिकम् । इत्थमेतदविज्ञाय शक्तिशूलं वरानने 8.82बद्ध्वापि खेचरीं मुद्रां नोत्पतयत्यवनीतलात् । इत्येतच्छाम्भवं प्रोक्तमष्टान्तं श 8.83तुर्यान्तमाणवं विद्यादिति शूलत्रयं मतम् । पृथग्यागविधानेन शक्तिचक्रं विचिन्तयेत् 8.84तेनापि खेचरीं बद्ध्वा त्यजत्येवं महीतलम् । ततोऽभिमन्त्र्य धान्यानि महास्त्रेण त् 8.85निक्षिपेद्दिक्षु सर्वासु ज्वलत्पावकवत्स्मरेत् । निर्विघ्नं तद्गृहं ध्यात्वा संहृ 8.86पञ्चगव्यं ततः कुर्याद्वदनैः पञ्चभिर्बुधः । गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथ 8.87मन्त्रयेदूर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम् । मुद्रे द्रव्यामृतं बद्ध्वा तत्त्वं त 8.88तेन संप्रोक्षयेद्भूमिं स्वल्पेनान्यन्निधापयेत् । वास्तुयागं ततः कुर्यान्मालिन्यु 8.89पुष्पैरञ्जलिमापूर्य फकारादि समुच्चरेत् । ध्यात्वा शक्त्यन्तमध्वानं नकारान्ते विन 8.90गन्धधूपादिकं दत्त्वा गणेशानं प्रपूजयेत् । षडुत्थमासनं न्यस्य प्रणवेन ततोपरि 8.91गामित्यनेन विघ्नेशं गन्धपुष्पादिभिर्यजेत् । अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः 8.92त्रिनेत्रं मुदितं ध्यात्वा गजास्यं वामनाकृतिम् । विसर्ज्य सिद्धिकामस्तु महास्त्र 8.93दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यमेव च । ऐश्वर्यं कर्णिकां चेति षडुत्थमिदमास 8.94अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणम् । विकरालं महादंष्ट्रं महोग्रं भ्रूकुटीम 8.95स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् । स्वार्णैरेवाङ्गषट्कं तु फट्कारपरिदीपितम् 8.96तद्रूपमेव संचिन्त्य ततो मात्रष्टकं यजेत् । इन्द्राणीं पूर्वपत्रे तु सवज्रां युगप 8.97आग्नेयिं शक्तिहस्तां तु याम्यां दण्डकरां ततः । नैरृतीं वरुणानीं च वायवीं च विचक् 8.98खड्गपाशध्वजैर्युक्तां चिन्तयेद्युगपत्प्रिये । कौवेरीं मुद्गरकरामीशानीं शूलसंयुता 8.99गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होममाचरेत् । आदौ च कलशं कुर्यात्सहस्राधिकमन्त्र 8.100सहस्रं होमयेत्तत्र ततो जप्त्वा विसर्जयेत् । शतमष्टोत्तरं पूर्णं पश्चाद्यजनमारभेत 8.101तत्रादौ कुम्भमादाय हेमादिमयमव्रणम् । सर्वमन्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम् 8.102चूतपल्लववक्त्रं च स्रक्सूत्रसितकण्ठकम् । रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम 8.103शताष्टोत्तरसंजप्तं मूलमन्त्रप्रपूजितम् । वार्धान्यपि तथाभूता किं तु सास्त्रेण पू 8.104विकिरैरासनं दत्त्वा पूर्वोक्तं तु विचक्षणः । इन्द्रादीन्पूजयेत्पश्चात्स्वदिक्षु 8.105अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत् । भ्रामयेत्कलशं पश्चाद्ब्रूयल्लोक 8.106भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन कर्मान्तं भवितव्यं शि 8.107नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत् । तस्य दक्षिणदिग्भागे वार्धानीं वि 8.108आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित् । गन्धपुष्पादिभिः पूज्य वार् 8.109गन्धैर्मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षनः । तत्र संपूजयेत्षट्कं त्रिकं वाप्येक 8.110कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम् । चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा 8.111कुशास्तरणपरिधिविष्टराणां च कल्पनम् । सर्वमस्त्रेण कूर्वीत विद्यामों ह्रीमिति न्य 8.112शिवमोमिति विन्यस्य संपूज्य द्वितयं पुनः । ताम्रपात्रे शरावे वा आनयेज्जातवेदसम् 8.113शिवशुक्रमिति ध्यात्वा विद्यायोनौ विनिक्षिपेत् । ततस्त्वाहूतयः पञ्च विद्याङ्गैरेव 8.114जननादि ततः कर्म सर्वमेवंकृते कृतम् । परापरामनुस्मृत्य दद्यात्पूर्णाहुतिं पुनः 8.115संपूज्य मातरं वह्नेः पितरं च विसर्जयेत् । चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुन 8.116ज्वलितस्याथवा वह्नेश्चितिं वामेन वायुना । आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क् 8.117पूर्णां च पूर्ववद्दद्याच्छिवाग्नेरपरो विधिः । शिवरूपं तमालोक्य तस्यात्मान्तःकृति 8.118कुर्यादन्तःकृतिं मन्त्री ततो होमं समारभेत् । मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः 8.119शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम् । ततः प्रवेशयेच्छिष्याञ्शुचीन्स्नातानुपो 8.120प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात् । पञ्चगव्यं चरुं दद्याद्दन्तधावनमेव च 8.121हृदयेन चरोः सिद्धिर्याज्ञिकैः क्षीरतण्डुलैः । संपातं सप्तभिर्मन्त्रैस्ततः षड्भाग 8.122शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम् । दन्तकाष्ठं ततो दद्यात्क्षीरवृक्षसम 8.123तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः । अशुभोऽन्यत्र तत्रापि होमोऽष्टशति 8.124बहिःकर्म ततः कुर्याद्दिक्षु सर्वासु दैशिकः । ॐ क्षः क्षः सर्वभूतेभ्यः स्वाहेति म 8.125समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम् … गृहे शुचिः 8.126न्यासं कृत्वा तु शिष्याणामात्मनश्च विशेषतः । प्रभाते नित्यकर्मादि कृत्वा स्वप्नं 8.127शुभं प्रकाशयेत्तेषां अशुभे होममाचरेत् । ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः 8.128आपदुत्तरणं चैव शुभदेशावरोहणम् । मद्यपानं शिरश्छेदमाममांसस्य भक्षणम् 8.129देवतादर्शनं साक्षात्तथा विष्टानुलेपनम् । एवंविधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत 8.130एतदेवान्यथाभूतं दुःस्वप्न इति कीर्त्यते । पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् 8.131तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः । देवाग्निगुरुदेवीनां पूजां कृत 8.132एतेषामनिवेद्यैव न किं चिदपि भक्षयेत् । देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर् 8.133निष्फलं नैव चेष्टेत मुहूर्तमपि मन्त्रवित् । योगाभ्यासरतो भूयान्मन्त्राभ्यासरतोऽप 8.134इत्येवमादिसमयाञ्श्रावयित्वा विसर्जयेत् । देवदेवं ततः स्नानं शिष्याणामात्मनोऽपि व 8.135कारयेच्छिवकुम्भेन सर्वदुष्कृतहारिणा । इत्येतत्सामयं कर्म समासात्परिकीर्तितम्