← Mandukya Karika
Mandukya Karika
वैतथ्यप्रकरणम्
38 verses · Gaudapada
2.1
वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेत
2.2
अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न
2.3
अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्र
2.4
अन्तस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन
2.5
स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना
2.6
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः
2.7
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृ
2.8
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक
2.9
स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यम
2.10
जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्य
2.11
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः
2.12
कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तनिश्चयः
2.13
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च बहिश्चित्त एवं कल्पयते प्
2.14
चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहे
2.15
अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्
2.16
जीवं कल्पयते पूर्वं वचो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्त
2.17
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः
2.18
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनि
2.19
प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य यया संमोहितः स्वयम्
2.20
प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः
2.21
पादा इति पादविदो विषया इति च तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः
2.22
वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः
2.23
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद
2.24
काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः
2.25
मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः
2.26
पञ्चविंशक इत्येके षड्विश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे
2.27
लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे
2.28
सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्व
2.29
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति
2.30
एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः
2.31
स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणै
2.32
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थ
2.33
भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा
2.34
नात्मभावेन नानेदं न स्वेनापि कथञ्चन । न पृथङ्नापृथक्किञ्चिदिति तत्त्वविदो विदुः
2.35
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः
2.36
तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत्
2.37
निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत्
2.38
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत
← आगमप्रकरणम्
अद्वैतप्रकरणम् →