← Mandukya Karika
Mandukya Karika

अलातशान्तिप्रकरणम्

100 verses · Gaudapada

4.1ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां 4.2अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् 4.3भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् 4.4भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते 4.5ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत 4.6अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति 4.7न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति 4.8स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश् 4.9सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति 4.10जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया 4.11कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् 4.12कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् 4.13अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायामानस्य न व्यवस्था प्र 4.14हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते 4.15हेतोरादिः फलं येषामादिर्हेतुः कलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्य 4.16संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्संभवे यस्मादसंबन्धो विषाणवत् 4.17फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति 4.18यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक् 4.19अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता 4.20बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स । न हि साध्यसमो हेतुः सिद्धौ साध्यस् 4.21पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते 4.22स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते 4.23हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्य 4.24प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता म 4.25प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूत 4.26चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः प 4.27निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष 4.28तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्त 4.29अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति 4.30अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चादिमतो मोक्षस्य न भविष्यति 4.31आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः 4.32सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स् 4.33सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् । संवृत्तेऽस्मिन्प्रदेशे वै भूताना 4.34न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न व 4.35मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते । गृहीतं चापि यत्किञ्चित्प्रतिबुद 4.36स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तु 4.37ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते । तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यत 4.38उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य संभवोऽस्ति कथञ्चन 4.39असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद् 4.40नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः 4.41विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धर्मांस्त 4.42उपलम्भात्समाचारादस्ति वस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सद 4.43अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भव 4.44उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते 4.45जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् 4.46एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यये 4.47ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा 4.48अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा 4.49अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन् 4.50न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः 4.51विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्न विज्ञानं वि 4.52न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव 4.53द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां न 4.54एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः 4.55यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः 4.56यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते 4.57संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास 4.58धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्य 4.59यथा मायामयाद्बीजाज्जायते तन्मयोङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योज 4.60नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यत 4.61यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्वयाभासं चित्तं चलति मायया 4.62अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशय 4.63स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वापि जीवान्प 4.64स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्च 4.65चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वापि जीवान्पश्यति 4.66जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित् 4.67उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते । लक्षणाशून्यमुभयं तन्मते नैव गृह्य 4.68यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च 4.69यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च 4.70यथा निर्मितको जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च 4.71न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायत 4.72चित्तस्पन्दिकमेवेदं ग्राह्यग्राहकवद्द्वयम् । चित्तं निर्विषयं नित्यमसङ्गं तेन की 4.73योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति पर 4.74अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु 4.75अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न ज 4.76यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः 4.77अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद 4.78बुद्ध्वा निमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथाकाममभयं पदमश्नुते 4.79अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते 4.80निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजम 4.81अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्म धातुस्वभावतः 4.82सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ 4.83अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्ये व 4.84कोठ्यश्चतस्र एतास्तु ग्रहैर्यासां सदा वृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्व 4.85प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः प 4.86विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं 4.87सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते 4.88अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प् 4.89ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधि 4.90हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः । तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स 4.91प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन कि 4.92आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत् 4.93आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम् 4.94वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः 4.95अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको 4.96अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् 4.97अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुतावरणच्युतिः 4.98अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति न 4.99क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धे 4.100दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम्