← Texts
Bhakti (devotion)

Narada Bhakti Sutra

Eighty-four aphorisms on devotion as supreme love: what it is, why it is greater than action and knowledge, how it is cultivated, the love that cannot be described, and those in whom it lives.

Narada · 84 sutras

प्रथमोऽध्यायः (परभक्तिस्वरूपम्)
1.1अथातो भक्तिं व्याख्यास्यामः 1.2सा त्वस्मिन् परप्रेमरूपा 1.3अमृतस्वरूपा च 1.4यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति 1.5यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति 1.6यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति 1.7सा न कामयमाना निरोधरूपत्वात् 1.8निरोधस्तु लोकवेदव्यापारन्यासः 1.9तस्मिन्ननन्यता तद्विरोधिषूदासीनता च 1.10अन्याश्रयाणां त्यागोनन्यता 1.11लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता 1.12भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् 1.13अन्यथा पातित्यशङ्कया 1.14लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि 1.15तल्लक्षणानि वाच्यन्ते नानामतभेदात् 1.16पूजादिष्वनुराग इति पाराशर्यः 1.17कथादिष्विति गर्गः 1.18आत्मरत्यविरोधेनेति शाण्डिल्यः 1.19नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति 1.20अस्त्येवमेवम् 1.21यथा व्रजगोपिकानाम् 1.22तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः 1.23तद्विहीनं जाराणामिव 1.24नास्त्येव तस्मिन् तत्सुखसुखित्वम्
द्वितीयोऽध्यायः (परभक्तिमहत्त्वम्)
2.1सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा 2.2फलरूपत्त्वात् 2.3ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च 2.4तस्याः ज्ञानमेव साधनमित्येके 2.5अन्योन्याश्रयत्वमित्यन्ये 2.6स्वयं फलरूपतेति ब्रह्मकुमारः 2.7राजगृहभोजनादिषु तथैव दृष्टत्वात् 2.8न तेन राजा परितोषः क्षुच्छान्तिर्वा 2.9तस्मात् सैव ग्राह्या मुमुक्षुभिः
तृतीयोऽध्यायः (भक्तिसाधनानि)
3.1तस्याः साधनानि गायन्त्याचार्याः 3.2तत्तु विषयत्यागात् सङ्गत्यागात् च 3.3अव्यावृत्तभजनात् 3.4लोकेऽपि भगवद्गुणश्रवणकीर्तनात् 3.5मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा 3.6महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च 3.7लभ्यतेऽपि तत्कृपयैव 3.8तस्मिंस्तज्जने भेदाभावात् 3.9तदेव साध्यतां तदेव साध्यताम् 3.10दुस्सङ्गः सर्वथैव त्याज्यः 3.11कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् 3.12तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते 3.13कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति 3.14यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति 3.15यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति 3.16यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते 3.17स तरति स तरति स लोकांस्तारयति
चतुर्थोऽध्यायः (प्रेमनिर्वचनम्)
4.1अनिर्वचनीयं प्रेमस्वरूपम् 4.2मूकास्वादनवत् 4.3प्रकाशते क्वापि पात्रे 4.4गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् 4.5तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति 4.6गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा 4.7उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति 4.8अन्य मात् सौलभं भक्तौ 4.9प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् 4.10शान्तिरूपात् परमानन्दरूपाच्च 4.11लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् 4.12न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च 4.13स्त्रीधननास्तिकचरित्रं न श्रवणीयम् 4.14अभिमानदम्भादिकं त्याज्यम् 4.15तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् 4.16त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम्
पञ्चमोऽध्यायः (मुख्यभक्तिमहिमा)
5.1भक्ता एकान्तिनो मुख्याः 5.2कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च 5.3तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्रा 5.4तन्मयाः 5.5मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति 5.6नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः 5.7यतस्तदीयाः 5.8वादो नावलम्ब्यः 5.9बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च 5.10भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि 5.11सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् 5.12अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि 5.13सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः 5.14सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् 5.15त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी 5.16गुणमाहात्म्यासक्तिरूपासक्तिपूजासक्तिस्मरणासक्तिदास्यासक्तिसख्यासक्तिवात्सल्यसक्त 5.17इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिण्यशे 5.18य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान् भवति सः प्रेष्टं ल