← Texts
Kashmir Shaivism (Trika / non-dual Tantra)

Paryantapanchashika

Abhinavagupta's Paryantapanchashika, "fifty verses on the ultimate", gathers the whole of non-dual Shaiva practice into a single recognition — "I am Bhairava" — through the five acts of Shiva, the levels of the knower, and the unspoken word at the heart of the Lord. 52 verses.

Abhinavagupta · 52 verses

पर्यन्तपञ्चाशिका
1.1आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् । अनुच्चार्यामहं वाचमधीये हृदयं विभ 1.2स एव भैरवो देवस्सर्वे देवाश्च यन्मयाः । सैवासौ भैरवी सत्तासत्तापि च यन्मयी 1.3तदेव भैरवं ज्ञानमज्ञानमपि यन्मयम् । स हि भैरवसिद्धान्तः पूर्वपक्षोऽपि यन्मयः 1.4ऐकध्यमध्वनां ष।ङ्नां यत्र सा भैरवी स्थितिः । पर्यन्ते सर्वतन्त्राणामवाच्या परमा 1.5सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया । हृदयं देवदेवस्य भैरवस्याविभागभूः 1.6चित्स्वाभाव्यादसौ देवः स्वात्मना विमृषन्प्रभुः । अनाश्रितादिभूम्यन्ता भूमिकाः प् 1.7तत्र वाचकवाच्यात्मस्पन्दयोरेकशः प्रभोः । स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता 1.8क्रमो यो देशकालात्मा भेदप्राणस्स संविदाम् । विच्छेदादेष विज्ञातुर्विचित्राभासताक 1.9उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः । शुद्धिर्बहिष्कृतार्थानां स्वाहन्तायां 1.10अशुद्धिरपि मग्नानां नैवं हृदयविश्रमः । अत्रान्तरेऽप्यनन्तास्स्युः स्थितयस्तारतम् 1.11उचितोचितमेयानां प्रमातॄणां प्रकाशने । साधारणान्यथाभावौ भिद्येते मातृमेययोः 1.12अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता । अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः 1.13क्रियाज्ञानात्मचिच्छक्तिर्भेदासूत्रणकारणात् । कलाविद्यापदं प्राप्य भेदोद्भेदे पु 1.14प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः । सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद् 1.15कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुरुच्यते । इतीच्छया स भगवान्भैरवः परिमीयते 1.16मितवृत्तिस्सती सा च शक्तिस्तमनुवर्तते । तस्य विद्येशसादाख्यशिवतास्संकुचत्स्थितेः 1.17तस्यासाधारणी सृष्टिस्तत्तन्नानाविकल्पना । शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया 1.18प्रमातैवायमेतावत्प्रकारोऽवग्रहोत्सवे । अव्यग्रो वर्तते स्वात्मन्यविकल्पे चिदात्म 1.19वत्स पश्य त्वमेवैततद्वयत्वेन संविदः । विदितं तन्मयं विश्वमन्यत्तुच्छमसद्यतः 1.20किमुपायमिदं तत्त्वं यतोऽन्यन्नैव सम्भवि । अनन्योपायमेतत्तदात्मोपायं प्रचक्षते 1.21संहृत्य सर्वतश्चिन्तामहमित्यनुशीलयन् । अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिप 1.22अनन्तैतावदाकारस्वीकारेऽप्येकलक्षणाम् । तां स्वसंविदमाविश्य विकल्पान्न विकल्पयेत् 1.23खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् । व्योमेश्वरीमात्मचितिं विगाह्य ब्रोडयेज् 1.24सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् । पञ्चकृत्यानि कुर्वाणः शिवोऽहमिति विश्वसेत् 1.25क्षेपज्ञानप्रसंख्यानगतिनादक्रमेण वा । गुरुवक्त्रेण तान्यात्मन्याकलय्य कृती भवेत् 1.26विकल्पयित्वा विश्वात्मा भैरवोऽहं ममैव ताः । विश्वभङ्ग्यो यथा वह्नेर्ज्वालाभङ्ग्य 1.27एकोऽहं मातृविज्ञानमानमेयप्रकारवान् । शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः 1.28मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् । भैरवोऽस्मीति विस्रम्भात्स्वाच्छन्द्यं परमं 1.29अन्तःकारबहिष्कारावकालक्रममात्मनः । अपराधीनमाधत्से यत्त्वं प्राभवनिर्भरः 1.30अनुत्तरविसर्गात्मविश्रमोदययामलम् । संघट्टश्शिवशक्त्योस्तदन्तरे चान्यशक्तयः 1.31आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः । अस्फुटस्फुटभेदेन वेद्योल्लासस्तयोर्विदः 1.32आनन्दानुत्तराभ्यां च सन्धीभावोऽथ वेदना । वेद्यानां प्राणभूतेति पूर्णं तद्भैरवं व 1.33वेद्योल्लासोऽयमिच्छायामीशने चैकतः स्थितः । स्थूलत्वेन पृथिव्यादिभूतपञ्चकतामियात् 1.34सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः । करणत्वेन संस्पर्शादिन्द्रियाणां द्वि 1.35वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे । मनोऽहंबुद्धितां एषामविभागे प्रधानताम् । 1.36अभूवन्निष्यसंयोगाद्द्विरूपादुभयात्मनः । इच्छास्वरूपादुन्मेषादन्यथानुत्तरायुतात् 1.37चतस्रश्शक्त्योऽन्तःस्थाः पुंसोऽस्यान्तश्च धारिकाः । चिद्व्योम्नो जडभूमेश्च मायाम 1.38इच्छाशक्तेस्त्रिरूपायास्तिस्रोऽन्याश्शक्त्योऽभवन् । विसर्गोऽयमथात्यर्थं स्फुटोऽभ 1.39एतत्सृष्ट्वात्मशक्तीनामितरेतरमिश्रात् । भवेत्क्षोभान्तरं नास्माद्विसर्गाद्बाह्यत 1.40इयत्सर्वं सदिच्छादिद्वारानुत्तरभैरवे । विश्रम्य विश्रम्य मुहुस्तत एव विसृज्यते 1.41अन्तर्निलीनानन्तार्थस्वात्मामर्शश्चितिः परा । एकवारवहाद्येयं मन्त्री वाक्शुद्धकर 1.42त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः । बहिस्ततश्चात्मनीति श्रीपरा कालकर 1.43भेदितान्तःकृताख।ङ्दभावावेक्षा परापरा । कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया 1.44मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी । विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता 1.45स्ववासनातादवस्थ्याद्दशयोः पूर्वयोरपि । मायामातुर्मितत्वं स्यात्पश्यन्त्याश्च क्र 1.46तयोराविश्य दशयोः क्रमाच्छान्तविकल्पयोः । धन्यस्स्वसंविद्विस्तारं साश्चर्यमनुपश्य 1.47सा स्थानकरणाघातपुंव्यापारात्मिका सती । वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः 1.48आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः । व्यवहारोऽथ शास्त्रीयो नानासंकोचसंक 1.49इति वाग्व्याप्तिविद्वांसमेतद्वर्गाधिदेवताः । माहेश्वरीमुखा देव्यो जागरेऽपि न भुञ 1.50उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः । यासौ स्वसंवित्तामेव सर्वोपायां समाविशेत् 1.51आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् । रहस्यं मन्त्रमुद्राणां प्रपद्येऽनुत्तरं 1.52शम्भोरभिन्नहृदया जयन्ति गुरवः पुरा । निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः