Pratyabhijna Hridayam
Kshemaraja's Pratyabhijna Hridayam, "the heart of recognition", distils the philosophy of recognition into 20 sutras: consciousness, free and self-luminous, is the cause of the universe, contracts into the individual mind, and is recognised again through the expansion of the centre.
प्रत्यभिज्ञाहृदयम्
1.1चितिः स्वतन्त्रा विश्वसिद्धिहेतुः
1.2स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति
1.3तन्नाना अनुरूपग्राह्यग्राहकभेदात्
1.4चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः
1.5चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम्
1.6तन्मयो मायाप्रमाता
1.7स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः
1.8तद्भूमिकाः सर्वदर्शनस्थितयः
1.9चिद्वत्तच्छक्तिसंकोचात्मलावृतः संसारी
1.10तथापि तद्वत्पञ्चकृत्यानि करोति
1.11आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस्तानि
1.12तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम्
1.13तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन चेतनपदाध्यारोहात्चितिः
1.14चितिवह्निररोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति
1.15बललाभे विश्वमात्मसात्करोति
1.16चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः
1.17मध्यविकासाच्चिदानन्दलाभः
1.18विकल्पक्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इह उपायाः
1.19समाधिसंस्कारवति व्युत्थाने भूयो भूयः चिदैक्यामर्शान्नित्योदितसमाधिलाभः
1.20तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा सर्वसर्गसंहारकारिनिजसं