← Texts
Bhakti (devotion)

Shandilya Bhakti Sutra

A hundred aphorisms that open "now, the inquiry into devotion" and argue that bhakti, supreme attachment to the Lord, is not a kind of knowledge but what knowledge serves.

Shandilya · 100 sutras

प्रथमोऽध्यायः
1.1.1अथातो भक्तिजिज्ञासा 1.1.2सा पराऽनुरक्तिरीश्वरे 1.1.3तत्संस्थस्यामृतत्वोपदेशात् 1.1.4ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः 1.1.5तयोपक्षयाच्च 1.1.6द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः 1.1.7न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् 1.1.8अत एव फलानन्त्यम् 1.1.9तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् 1.2.1सा सुख्येतरापेक्षितत्वात् 1.2.2प्रकरणाच्च 1.2.3दर्शनफलमिति चेन्न तेन व्यवधानात् 1.2.4दृष्टत्वाच्च 1.2.5अत एव तदभावाद्वल्लवीनाम् 1.2.6भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् 1.2.7प्रागुक्तं च 1.2.8एतेन विकल्पोऽपि प्रत्युक्तः 1.2.9देवभक्तिरितरस्मिन् साहचर्यात् 1.2.10योगस्तूभयार्थमपेक्षणात् प्रयाजवत् 1.2.11गौण्या तु समाधिसिद्धिः 1.2.12हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् 1.2.13तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् 1.2.14प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः 1.2.15नैव श्रद्धा तु साधारण्यात् 1.2.16तस्यां तत्त्वे चानवस्थानात् 1.2.17ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात्
द्वितीयोऽध्यायः
2.1.1बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् 2.1.2तदङ्गानां च 2.1.3तामैश्वर्यपरां काश्यपः परत्वात् 2.1.4आत्मैकपरां बादरायणः 2.1.5उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम् 2.1.6वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात् 2.1.7न च क्लिष्टः परः स्यादनन्तरं विशेषात् 2.1.8ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् 2.1.9अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् 2.1.10सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात् 2.1.11प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् 2.1.12तत्प्रतिष्ठा गृहपीठवत् 2.1.13मिथोऽपेक्षणादुभयम् 2.1.14चेत्याचितोर्न तृतीयम् 2.1.15युक्तौ च सम्परायात् 2.1.16शक्तित्वान्नानृतं वेद्यम् 2.1.17तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः 2.1.18सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्र 2.1.19द्वेषादयस्तु नैवम् 2.1.20तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा 2.1.21जन्मकर्मविदश्चाजन्मशब्दात् 2.1.22तच्च दिव्यं स्वशक्तिमात्रोद्भवात् 2.1.23मुख्यं तस्य हि कारुण्यम् 2.1.24प्राणित्वान्न विभूतिषु 2.1.25द्यूतराजसेवयोः प्रतिषेधाच्च 2.1.26वासुदेवेऽपीति चेन्नाकारमात्रत्वात् 2.1.27प्रत्यभिज्ञानाच्च 2.1.28वृष्णिषु श्रैष्ठ्येन तत् 2.1.29एवं प्रसिद्धेषु च 2.2.1भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात् 2.2.2रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम् 2.2.3अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात् 2.2.4ताभ्यः पावित्र्यमुपक्रमात् 2.2.5तासु प्रधानयोगात् फलाधिक्यमेके 2.2.6नाम्नेति जैमिनिः सम्भवात् 2.2.7अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् 2.2.8ईश्वरतुष्टेरेकोऽपि बली 2.2.9अबन्धोऽर्पणस्य मुखम् 2.2.10ध्याननियमस्तु दृष्टसौकर्यात् 2.2.11तद्यजिः पूजायामितरेषां नैवम् 2.2.12पादोदकं तु पाद्यमव्याप्तेः 2.2.13स्वयमर्पितं ग्राह्यमविशेषात् 2.2.14निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था 2.2.15पत्रादेर्दानमन्यथा हि वैशिष्टयम् 2.2.16सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्यः 2.2.17गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् 2.2.18बहिरन्तस्थमुभयमवेष्टिसववत् 2.2.19स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात् 2.2.20भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि 2.2.21लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् 2.2.22तत्स्थानत्वादनन्यधर्मः खलेवालीवत् 2.2.23आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् 2.2.24अतो ह्यविपक्वभावानामपि तल्लोके 2.2.25क्रमैकगत्युपपत्तेस्तु 2.2.26अत्क्रान्तिस्मृतिवाक्यशेषाच्च 2.2.27महापातकिनां त्वार्तौ 2.2.28सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् 2.2.29परां कृत्वैव सर्वेषां तथा ह्याह
तृतीयोऽध्यायः
3.1.1भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् 3.1.2तच्छक्तिर्माया जडसामान्यात् 3.1.3व्यापकत्वाद्वयाप्यानाम् 3.1.4न प्राणिबुद्धिभ्योऽसम्भवात् 3.1.5निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् 3.1.6मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् 3.1.7फलमस्माद्बादरायणो दृष्टत्वात् 3.1.8व्युत्क्रमादप्ययस्तथा दृष्टम् 3.2.1तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् 3.2.2पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् 3.2.3न विकारिणस्तु करणविकारात् 3.2.4अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम् 3.2.5आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् 3.2.6संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः 3.2.7त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् 3.2.8आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात्