← Shiva Samhita
Shiva Samhita
चतुर्थपटलः
111 verses · Traditional
4.1
आदौ पूरक योगेन स्वाधारे पूरयेन्मनः । गुदमेढ्रान्तरे योनिस्तामाकुञ्च्य प्रवर्तते
4.2
योनिमुद्राकथनम् । ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम् । सूर्यकोटिप्रतीकाश
4.3
तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला । तया सहितमात्मानमेकीभूतं विचिन्तये
4.4
गच्छति ब्रह्ममार्गेण लिङ्गत्रयक्रमेण वै । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्
4.5
अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् । श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम
4.6
पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा । सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे म
4.7
पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम् । योनिमुद्रा परा ह्येषा बन्धस्तस्याः
4.8
तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत्
4.9
छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तम्भिताश्च ये । दग्धामन्त्राः शिरोहीना मलिना
4.10
मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः । भेदिनो भ्रमसंयुक्ताः सप्ताहं मूर्च
4.11
अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः । तथा सत्त्वेन हीनाश्च खण्डिताः
4.12
विधिनानेन च संयुक्तः प्रभवन्त्यचिरेण तु । (विधानेन च संयुक्ताः) सिद्धिमोक्षप्रदा
4.13
यद्युच्चरते योगी मन्त्ररूपं शुभाशुभम् । तत्सिद्धिं समवाप्नोति योनिमुद्रानिबन्धना
4.14
दीक्षयित्वा विधानेन अभिषिञ्च्य सहस्रधा । ततो मन्त्राधिकारार्थमेषा मुद्रा प्रकीर्
4.15
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् । नासौ लिप्यति पापेन योनिमुद्रानिबन्धना
4.16
गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः । एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात्
4.17
तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकाङ्क्षिभिः । अभ्यासाज्जायते सिद्धिरभ्यासान्म
4.18
संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते । मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायु
4.19
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् । वाक्सिद्धिः कामचारित्वं भवेदभ्यासयोगतः
4.20
योनिमुद्रा परं गोप्या न देया यस्य कस्यचित् । सर्वथा नैव दातव्या प्राणैः कण्ठगतैर
4.21
अधुना कथयिष्यामि योगसिद्धिकरं परम् । गोपनीयं सुसिद्धानां योगं परमदुर्लभम्
4.22
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयो
4.23
तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं
4.24
महामुद्रा महाबन्धो महावेधश्च खेचरी । जालन्धरो मूलबन्धो विपरीतकृतिस्तथा
4.25
उड्डानं चैव वज्रोणी दशमे शक्तिचालनम् । इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम्
4.26
महामुद्राकथनम् । महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्ममवल्लभे । यां प्राप्य सि
4.27
अपसव्येन सम्पीड्य पादमूलेन सादरम् । गुरूपदेशतो योनिं गुदमेढ्रान्तरालगाम्
4.28
सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै । (प्रसारित पाद) नवद्वाराणि संयम्य चिबु
4.29
चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम् । महामुद्राभवेदेषा सर्वतन्त्रेषु गोपि
4.30
वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः । प्राणायामं समं कृत्वा योगी नियतमानस
4.31
अनेन विधिना योगी मन्दभाग्योऽपि सिध्यति । सर्वासामेव नाडीनां चालनं बिन्दुमारणम्
4.32
जीवनन्तु कषायस्य पातकानां विनाशनम् । कुण्डालीतापनं वायोर्ब्रह्मरन्ध्रप्रवेशनम्
4.33
सर्वरोगोपशमनं जठराग्निविवर्धनम् । वपुषा कान्तिममलां जरामृत्युविनाशनम्
4.34
वाञ्छितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम् । एतदुक्तानि सर्वाणि योगारूढस्य योगिन
4.35
गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते । यान्तु प्राप्य भवाम्भोधेः पारं गच्छन्ति य
4.36
मुद्रा कामदुघा ह्येषा साधकानां मयोदिता । गुप्ताचारेण कर्तव्या न देया यस्य कस्यचि
4.37
महाबन्धकथनम् । ततः प्रसारितः पादो विन्यस्य तमुरूपरि
4.38
गुदयोनिं समाकुञ्च्य कृत्वा चापानमूर्ध्वगम् । योजयित्वा समानेन कृत्वा प्राणमधोमुख
4.39
बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः । कथितोऽयं महाबन्धः सिद्धिमार्गप्रदाय
4.40
नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः । उभाभ्यां साधयेत्पद्भ्यामेकैकं सुप्रयत्
4.41
भवेदभ्यासतो वायुः सुषुम्णामध्यसङ्गतः । अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपञ्जरे
4.42
सम्पूर्णहृदयो योगी भवत्न्येतानि योगिनः । बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सि
4.43
महावेधकथनम् । अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि । महावेधस्थितो योगी कुक्षि
4.44
वेधेनानेन संविध्य वायुना योगिपुङ्गवः । ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रन्थिं भ
4.45
यः करोति सदाभ्यासं महावेधं सुगोपितम् । वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी
4.46
चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात् । कुण्डल्यपि महामाया कैलासे सा विलीयते
4.47
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ । (निष्फलो) तस्माद्योगी प्रयत्नेन करोति त्र
4.48
एतत्त्रयं प्रयत्नेन चतुर्वारं करोति यः । षण्मासाभ्यन्तरं मृत्युञ्जयत्येव न संशयः
4.49
एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः । यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम
4.50
गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः । अन्यथा च न सिद्धिः स्यान्मुद्राणामेष
4.51
खेचरीमुद्राकथनम् । भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः
4.52
उपविश्यासने वज्रे नानोपद्रववर्जितः । लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम्
4.53
संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः । मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः
4.54
सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया । निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पि
4.55
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । खेचरी यस्य शुद्धा तु स शुद्धो नात्र
4.56
क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम् । दिव्यभोगान्प्रभुक्त्वा च सत्कुले
4.57
मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः । शतब्रह्मगतेनापि क्षणार्धं मन्यत
4.58
गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम् । नानापापरतो धीमान् स याति परमां गतिम्
4.59
सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते । (यस्मै कस्मै न) प्रच्छाद्यते प्रयत्
4.60
जालन्धरबन्धकथनम् । बद्धागलशिराजालं हृदये चिबुकं न्यसेत् । बन्धोजालन्धरः प्रोक्तो
4.61
नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम् । पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम्
4.62
बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान् । अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये
4.63
जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः । अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच
4.64
मूलबन्धकथनम् । पादमूलेन सम्पीड्य गुदमार्गेषु यन्त्रितम्
4.65
बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत् । कल्पितोऽयं मूलबन्धो जरामरणनाशनः
4.66
अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम् । बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यत
4.67
सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले । बन्धस्यास्य प्रसादेन गगने विजिता
4.68
सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत् । संसारसागरं तर्तुं यदीच्छेद्योगि पुङ्ग
4.69
विपरीतकरणीमुद्राकथनम् । भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम् । विपरीतकृतिश्चैष
4.70
एतद्यः कुरुते नित्यमभ्यासं याममात्रतः । मृत्युञ्जयति स योगी प्रलयेनापि सीदति
4.71
कुरुतेऽमृतपानं यः सिद्धानां समतामियात् । स सेव्यः सर्वलोकानां बन्धमेनं करोति यः
4.72
उड्डयानबन्धकथनम् । नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत् । उड्ड्यानबन्ध एष स्या
4.73
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् । उड्ड्यानाख्योऽत्र बन्धोऽयं मृत्युमात
4.74
नित्यं यः कुरुते योगी चतुर्वारं दिने दिने । तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्
4.75
षण्मासमभ्यसन्योगी मृत्युञ्जयति निश्चितम् । तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजाय
4.76
अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते । रोगाणां सङ्क्षयश्चापि योगिनो भवति ध्रुव
4.77
गुरोर्लब्ध्वा प्रयत्नेन साधयेत्तु विचक्षणः । निर्जने सुस्थिते देशे बन्धं परमदुर्
4.78
वज्रोलीमुद्राकथनम् । वज्रोलीं कथयिष्यामि संसारध्वान्तनाशिनीम् । स्वेभक्तेभ्यः सम
4.79
स्वेच्छया वर्तमानोऽपि योगोक्तनियमैर्विना । मुक्तो भवति गार्हस्थो वज्रोल्यभ्यसयोग
4.80
वज्रोल्यभ्यासयोगोऽयं भोगे युक्तेऽपि मुक्तिदः । तस्मादतिप्रयत्नेन कर्तव्यो योगिभि
4.81
आदौ रजः स्त्रियो योन्याः यत्नेन विधिवत्सुधीः । आकुञ्च्य लिङ्गनालेन स्वशरीरे प्रव
4.82
स्वकं बिन्दुश्च सम्बन्ध्य लिङ्गचालनमाचरेत् । दैवाच्चलति चेदूर्ध्वं निबद्धो योनिम
4.83
वाममार्गेऽपि तद्बिन्दुं नीत्वा लिङ्गं निवारयेत् । क्षणमात्रं योनितो यः पुमांश्चा
4.84
गुरूपदेशतो योगी हुंहुङ्कारेण योनितः । अपानवायुमाकुञ्चय बलादाकृष्य तद्रजः
4.85
अनेन विधिना योगी क्षिप्रं योगस्य सिद्धये । भव्यभुक्कुरुते योगी गुरुपादाब्जपूजकः
4.86
बिन्दुर्विधुमयो ज्ञेयो रजः सूर्यमयस्तथा । उभयोर्मेलनं कार्यं स्वशरीरे प्रवेशयेत्
4.87
अहं बिन्दू रजः शक्तिरुभयोर्मेलनं यदा । योगिनां साधनावस्था भवेद्दिव्यं वपुस्तदा
4.88
मरणं बिन्दुपातेन जीवनं बिन्दुधारणे । तस्मादतिप्रयत्नेन कुरुते बिन्दुधारणम्
4.89
जायते म्रियते लोके बिन्दुना नात्र संशयः । एतज्ज्ञात्वा सदा योगी बिन्दुधारणमाचरेत
4.90
सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले । यस्य प्रसादान्महिमा ममाप्येतादृशो भ
4.91
बिन्दुः करोति सर्वेषां सुखं दुःखञ्च संस्थितः । संसारिणां विमूढानां जरामरणशालिनाम
4.92
अयं च शाङ्करो योगो योगिनामुत्तमोत्तमः
4.93
अभ्यासात्सिद्धिमाप्नोति भोगयुक्तोऽपि मानवः । सकलः साधितार्थोऽपि सिद्धो भवति भूतल
4.94
भुक्त्वा भोगानशेषान् वै योगेनानेन निश्चितम् । अनेन सकला सिद्धिर्योगिनां भवति ध्र
4.95
सहजोल्यमरोली च वज्रोल्या भेदतो भवेत् । येन केन प्रकारेण बिन्दुं योगी प्रधारयेत्
4.96
दैवाच्चलति चेद्वेगे मेलनं चन्द्रसूर्ययोः । अमरोलिरियं प्रोक्ता लिङ्गनालेन शोषयेत
4.97
गतं बिन्दुं स्वकं योगी बन्धयेद्योनिमुद्रया । सहजोलीरियं प्रोक्ता सर्वतन्त्रेषु ग
4.98
संज्ञाभेदाद्भवेद्भेदः कार्यं तुल्यगतिर्यदि । तस्मात्सर्वप्रयत्नेन साध्यते योगिभि
4.99
अयं योगो मया प्रोक्तो भक्तानां स्नेहतः प्रिये । गोपनीयः प्रयत्नेन न देयो यस्य कस
4.100
एतद्गुह्यतमं गुह्यं न भूतं न भविष्यति । तस्मादेतत्प्रयत्नेन गोपनीयं सदा बुधैः
4.101
स्वमूत्रोत्सर्गकाले यो बलादाकृष्य वायुना । स्तोकं स्तोकं त्यजेन्मूत्रमूर्ध्वमाकृ
4.102
गुरूपदिष्टमार्गेण प्रत्यहं यः समाचरेत् । बिन्दुसिद्धिर्भवेत्तस्य महासिद्धिप्रदाय
4.103
षण्मासमभ्यसेद्यो वै प्रत्यहं गुरुशिक्षया । शताङ्गनाविभोगेऽपि तस्य बिन्दुर्न नश्य
4.104
सिद्धे बिन्दौ महायत्ने किं न सिद्ध्यति पार्वति । ईशत्वं यत्प्रसादेन ममापि दुर्लभ
4.105
शक्तिचालनमुद्राकथनम् । आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् । अपानवायुमारुह्य
4.106
शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत् । आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम
4.107
विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु । तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्
4.108
यः करोति सदाभ्यासं शक्तिचालनमुत्तमम् । येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा
4.109
गुरूपदेशविधिना तस्य मृत्युभयं कुतः । मुहूर्तद्वयपर्यन्तं विधिना शक्तिनाशनम्
4.110
यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः । युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम्
4.111
एतत्सुमुद्रादशकं न भूतं न भविष्यति । एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा
← तृतीयपटलः
पञ्चमपटलः →