← Surya Siddhanta
Surya Siddhanta
मध्यमाधिकारः
70 verses · Traditional
1.1
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः
1.2
अल्पावशिष्टे तु कृते मयो नाम महासुरः । रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम
1.3
वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम् । आराधयन्विवस्वन्तं तपस्तेपे सुदुश्चरम्
1.4
तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने । ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम
1.5
विदितस्ते मया भावस्तोषितस्तपसा ह्यहम् । दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं म
1.6
न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः । मदंशः पुरुषोऽयं ते निःशेषं कथयिष्य
1.7
इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः । स पुमान्मयमाहेदं प्रणतं प्राञ्जलिस
1.8
शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम् । युगे युगे महर्षीणां स्वयमेव विवस्वत
1.9
शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः । युगानां परिवर्तेन कालभेदोऽत्र के
1.10
लोकानामन्तकृत्कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर
1.11
प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः । षड्भिः प्राणैर्विनाडी स्यात्त
1.12
नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् । तत्त्रिंशता भवेन्मासः सावनोऽर्को
1.13
ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते । मासैर्द्वादशभिर्वर्षं दिव्यं तदह
1.14
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् । तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च
1.15
तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम् । सूर्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः
1.16
सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् । कृतादीनां व्यवस्थेयं धर्मपादव्यवस
1.17
युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः । क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययो
1.18
युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते । कृताब्दसंख्यास्तस्यान्ते सन्धिः प्रोक्त
1.19
ससन्धयस्ते मनवः कल्पे ज्ञेयास्चतुर्दश । कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः
1.20
इत्थम्युगसहस्रेण भूतसंहारकारकः । कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती
1.21
परमायुः शतं तस्य तयाहोरात्रसंख्यया । आयुषोऽर्धमितं तस्य शेषकल्पोऽयमादिमः
1.22
कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः । वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः
1.23
अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम् । अतः कालं प्रसंख्याय संख्यामेकत्र पिण
1.24
ग्रहर्क्षदेवदैत्यादि सृजतोऽस्य चराचरम् । कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो ग
1.25
पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव स्व
1.26
प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्ज
1.27
शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः । तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः
1.28
विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणो द्वादशै
1.29
युगे सूर्यज्ञशुक्राणाम्खचतुष्करदार्णवाः । कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिन
1.30
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः । दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य
1.31
बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः । बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्त
1.32
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः । शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः
1.33
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे । वामं पातस्य वस्वग्नियमाश्विशिखि
1.34
भानामष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः । भोदया भगणैः स्वैः स्वैरूनाः स्वस
1.35
भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम् । रविमासोनितास्ते तु शेषाः स्युरधिमासकाः
1.36
सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः । उदयादुदयं भानोर्भूमिसावनव
1.37
वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे । चान्द्राः खाष्टखखव्योमखाग्निखर्तुनि
1.38
षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः । तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्व
1.39
खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः । भवन्ति भोदया भानुभगणैरूनिताः क्वहाः
1.40
अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः । एते सहस्रगुणिताः कल्पे स्युर्भगणादयः
1.41
प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः । कौजस्य वेदखयमा बौधस्याष्टर्तुवह्न
1.42
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः । गोऽग्नयः शनिमन्दस्य पातानामथ वामतः
1.43
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः । कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च
1.44
शनिपातस्य भगणाः कल्पे यमरसर्तवः । भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः
1.45
षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह । कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथ
1.46
युगानाम्त्रिघनं यातं तथा कृतयुगं त्विदम् । प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं
1.47
सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी । खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकर
1.48
अत ऊर्ध्वममी युक्ता गतकालाब्दसंख्यया । मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः
1.49
पृथक्ष्थास्तेऽधिमासघ्नाः सूर्यमासविभाजिताः । लब्धाधिमासकैर्युक्ता दिनीकृत्य दिना
1.50
द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः । लब्धोनरात्रिरहिता लङ्कायामार्धर
1.51
सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः । सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश
1.52
मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् । सप्तोद्धृतावशेषौ तु विज्ञेयौ मासव
1.53
यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः । विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत्
1.54
एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः । विलोमगतयः पातास्तद्वच्चक्राद्वि
1.55
द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः । राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विज
1.56
विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम् । मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात
1.57
अस्मिन्कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः । विना तु पातमन्दोच्चान्मेषादौ तुल्यत
1.58
मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः । निरंशत्वम्गताश्चान्ये नोक्तास्ते मन्दचा
1.59
योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु । तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत्
1.60
लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः । तेन देशान्तराभ्यस्ता ग्रहभुक्त
1.61
कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् । रेखाप्रतीचीसंस्थाने प्रक्षिपेत्स्य
1.62
राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः । रोहीतकमवन्ती च यथा सन्निहितं सरः
1.63
अतीत्योन्मीलनादिन्दोः पश्चात्तद्गणितागतात् । यदा भवेत्तदा प्राच्यां स्वस्थानं मध
1.64
अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात् । तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुट
1.65
षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः । स्वदेशः परिधौ ज्ञेयः कुर्याद्देशान
1.66
वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत् । तद्देशान्तरनाडीभिः पश्चादूने
1.67
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् । गते शोध्यं युतं गम्ये कृत्वा तात्क
1.68
भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम् । विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादन
1.69
तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः । बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते
1.70
एवम्त्रिघनरन्ध्रार्करसार्कार्का दशाहताः । चन्द्रादीनां क्रमादुक्ता मध्यविकेषेपलि
स्पष्टाधिकारः →