← Upadesha Sahasri
Upadesha Sahasri
प्रथमम् प्रकरणम्
26 verses · Shankaracharya
1.1
चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् । यत् सर्वविषयातीतं तस्मै सर्वविदे नमः
1.2
समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः । ब्रह्मविद्यामथेदानीं वक्तुं वेदः
1.3
कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये । ध्रुवे स्यातां ततो रागो द्वेषश्चैव तत
1.4
धर्माधार्मौ ततोऽज्ञास्य देहयोगस्तथा पुनः । एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवद्
1.5
अज्ञानं तस्य मूलं स्यादिति तद्धानमिष्यते । ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भ
1.6
विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः । नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत्
1.7
रागद्वेषक्षयाभावे कर्म दोषद्भवं ध्रुवम् । तस्मान् निःश्रेयसार्थाय विद्यैवात्र वि
1.8
ननु कर्म तथा नित्यं कर्तव्यं जीवने सति । विद्यायाः सहकारित्वं मोक्षं प्रति हि तद
1.9
यथा विद्या तथा कर्म चोदितत्वाविशेषतः । प्रत्यवायस्मृतेश्चैव कार्यं कर्म मुमुक्षु
1.10
ननु ध्रुवफला विद्या नान्यत् किंचिदपेक्षते । नाग्निष्टोमो यथैवान्यद् ध्रुवकार्योऽ
1.11
तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते । इत्येवं केचिदिच्छन्ति न कर्म प्रतिकूलतः
1.12
विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः । निर्विकारात्मबुद्धिश्च विद्येतीह
1.13
अहं कर्ता ममेदं स्यादिति कर्म प्रवर्तते । वस्त्वधीना भवेद् विद्या कर्तधीनो भवेद्
1.14
कारकाण्युपमृद्नाति विद्याऽब्बुद्धिमिवोषरे । तत्सत्यमतिमादाय कर्म कर्तुं व्यवस्यत
1.15
विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया । सहैवं विदुषा तस्मात् कर्म हेयं मुमु
1.16
देहाद्यैरविशेषेण देहिनो ग्रहणं निजम् । प्राणिनां तदविद्योत्थं तावत् कर्मविधिर्भव
1.17
नेति नेतीति देहादीनपोह्यात्मावशेषितः । अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता
1.18
निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः । असत्येवाविशेषे हि प्रत्यगात्मनि केवले
1.19
न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् । सदस्मीति च विज्ञाने तस्माद् विद्य
1.20
अत्यरेचयदित्युक्तो न्यासः श्रुत्यात एव हि । कर्मभ्यो मानसान्तेभ्य एतावदिति वाजिन
1.21
अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः । अग्निष्टोमवदित्युक्तं तत्रेद
1.22
नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः । विद्या तद्विपईतातो दृष्टान्तो विषमो भ
1.23
कृष्यादिवत् फलार्थत्वादन्यकर्मोपबृंहणम् । अग्निष्टोमस्त्वपेक्षेत विद्यान्यत् किम
1.24
प्रत्यवायस्तु तस्यैव यस्याहंकार इष्यते । अहंकारफलार्थित्वे विद्येते नात्मवेदिनः
1.25
तस्मादज्ञानहानाय संसारविनिवृत्तये । ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्वियम्
1.26
सदेरुपनिपूर्वस्य क्विपि चोपनिषद् भवेत् । मन्दीकरणभावाच् च गर्भादेः शातनात् तथा
द्वितीयम् प्रकरणम् →