← Upadesha Sahasri
Upadesha Sahasri
द्वादशम् प्रकरणम्
19 verses · Shankaracharya
12.1
प्रकाशस्थं यथा देहं सालोकमभिमन्यते । द्रष्ट्राभासं तथा चित्तं द्रष्टाहमिति मन्यत
12.2
यदेव दृष्यते लोके तेनाभिन्नत्वमात्मनः । प्रपद्यते ततो मूढस्तेनात्मानं न विन्दति
12.3
दशमस्य नवात्मत्वप्रतिपत्तिवदात्मनः । दृश्येषु तद्वदेवायं मूढो लोको न चान्यथा
12.4
त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिकौ । एकनीडौ कथं स्यातां विरुद्धौ न्यायतो व
12.5
देहाभिमानिन् दुःखं नादेहस्यस्वभावतः । स्वापवत् तत्प्रहाणाय तत् त्वमित्युच्यते दृ
12.6
दृशेश्छाया यदारूढा मुखच्छायेव दर्शने । पश्यंस्तं प्रत्ययं योगी दृष्ट आत्मेति मन्
12.7
तं च मूढं च यद्यन्यं प्रत्ययं वेत्ति नो दृशेः । स एव योगिनां श्रेष्ठो नेतरः स्या
12.8
विज्ञातेर्यस्तु विज्ञाता स त्वमित्युच्यते यतः । स स्यादनुभवस्तस्य ततोऽन्योऽनुभवो
12.9
दृशिरूपे सदा नित्ये दर्शनादर्शने मयि । कथं स्यातां ततो नान्य इष्यतेऽनुभवस्ततः
12.10
यत्स्थस्तापो रवेर्देहे दृशेः स विषयो यथा । सत्त्वस्थस्तद्वदेवेह दृशेः स विषयस्तथ
12.11
प्रतिषिद्धेदमंशो ज्ञः खमिवैकरसोऽद्वयः । नित्यमुक्तस्तथा शुद्धः सोऽहं ब्रह्मास्मि
12.12
विज्ञातुर्नैव विज्ञाता परोऽन्यः संभवत्यतः । विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्
12.13
यो वेदालुप्तदृष्टित्वमात्मनोऽकर्तृतां तथा । ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्
12.14
ज्ञातैवाहमविज्ञेयः शुद्धो मुक्तः सदेत्यपि । विवेकी प्रत्ययो बुद्धेर्दृश्यत्वान्
12.15
अलुप्ता त्वात्मनो दृष्टिर्नोत्पाद्या कारकैर्यतः । दृश्यया चान्यया दृष्ट्या जन्यत
12.16
देहात्मबुद्ध्यपेक्षत्वादात्मनः कर्तृता मृषा । नैव किंचित् करोमीति सत्या बुद्धिः
12.17
कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः । कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश
12.18
एवं शास्त्रानुमानाभ्यां स्वरूपेऽवगते सति । नियोज्योऽहमिति ह्येषा सत्या बुद्धिः क
12.19
यथा सर्वान्तरं व्योम व्योम्नोऽप्यभ्यन्तरो ह्यहम् । निर्विकारोऽचलः शुद्धोऽजरो मुक
← एकादशम् प्रकरणम्
त्रयोदशम् प्रकरणम् →