← Texts
Mantra and sound (shabda-brahman: the word as the absolute)

Vakyapadiya (Brahmakanda)

The first book of Bhartrhari's philosophy of language: Brahman as the imperishable word that unfolds as the world, the levels of speech, and why no thought is ever without words.

Bhartrhari · 183 verses

ब्रह्मकाण्डम्
1.1अनादिनिधनम्ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः 1.2एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् । अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर 1.3अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः । जन्मादयो विकाराः षड्भावभेदस्य योनयः 1.4एकस्य सर्वबीजस्य यस्य चेयमनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः 1.5प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक् 1.6भेदानां बहुमार्गत्वं कर्मण्येकत्र चाण्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृष 1.7स्मृतयो बहुरूपास्च दृष्टादृष्टप्रयोजनाः । तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्र 1.8तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधागत 1.9सत्या विसुद्धिस्तत्रोक्ता विद्यैवेकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना 1.10विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतव 1.11आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः 1.12प्राप्तरूपविभागाया यो वाचः परमो रसः । यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमान्जस 1.13अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोद्जः शब्दानं नास्ति व्याक 1.14तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रकासत 1.15यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः । तथैव लोके विद्यानामेसा विद्या परायनम् 1.16इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः 1.17अत्रातीतविपर्यासः केवलामनुपस्यति । छन्दस्यस्छन्दसां योनिमात्मा छन्दोमयीं तनुम् 1.18प्रत्यस्थमितभेदाया यद्वाचो रूपमुत्तमम् । यदस्मिन्नेव तमसि ज्योतिः सुद्धं विवर्तत 1.19वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते 1.20यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम् 1.21अथर्वणामङ्गिरसां सांनामृग्यजुषस्य च । यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितपरिग्रहा 1.22यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद्व्याकरणं आगम्य परं ब्रह्माधिगम्यते 1.23नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्या 1.24अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश्च ये शब्दा ये चापि प् 1.25कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाध 1.26ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः । स्मृत्यर्थमनुगम्यन्ते के च 1.27शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः 1.28नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते । प्राणिनामिव सा चैषा व्यवस्थानित्यतोच 1.29नानर्थिकामिमां कश्चिद्व्यवस्थां कर्तुमर्हति । तस्मान्निबध्यते शिष्टैः साधुत्वविष 1.30न चागमादृते धर्मस्तर्केण व्यवतिष्ठते । ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् 1.31धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल्लोकप्रसिद्धत्वात्कश्चित् 1.32अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा 1.33निर्ज्ञातशक्तेर्द्रव्यस्य तां तानर्थक्रियां प्रति । विशिष्टद्रव्यसंबन्धे सा शक्त 1.34यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते 1.35परेषामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् 1.36प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धय 1.37आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते 1.38अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा । ये भावान्वचनं तेषां नानुमानेन बा 1.39यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर् 1.40इदं पुण्यमिदं पापमित्येतस्मिन्पदद्वये । आचण्डालमनुष्याणामल्पं शास्त्रप्रयोजनम् 1.41चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते 1.42हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः 1.43तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषय 1.44द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्य 1.45अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः । शब्दस्तत्रार्थरूपात्मा संबन्धमुपगच्छति 1.46आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः । बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते 1.47अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कार 1.48वितर्कितः पुरा बुद्ध्या क्व चिदर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सोऽनुग 1.49नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः । अक्रमः क्रमरूपेण भेदवानिव जायते 1.50प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिमिवान्वेति स धर्मः स्फ 1.51आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते 1.52आण्डभावमिवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रम 1.53यथैकबुद्धिविषया मूर्तिराक्रियते पटे । मूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते 1.54यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते । व्यवसायो ग्रहीतॄणामेवं तेष्व 1.55अर्थोपसर्जनीभूतानभिधेयेषु केषु चित् । चरितार्थान्परार्थत्वान्न लोकः प्रतिपद्यते 1.56ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते 1.57विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते । न सत्तयैव तेऽर्थानामगृहीताः प्रकाशका 1.58अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते । नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृ 1.59भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ । भेदकारेषु हेतुत्वमविरोधेन गच्छतः 1.60वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः संबन्धं यान् 1.61अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः । अग्निश्रुत्यैति संबन्धमग्निशब्दाभिधेयया 1.62यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध 1.63उच्चरन्परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते । तस्मात्तदर्थैः कार्याणां संबन्धः प 1.64सामान्यमाश्रितं यद्यदुपमानोपमेययोः । तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते 1.65गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद्गुणादेव प्रकृष्टत्वं 1.66तस्याभिधेयभावेन यः शब्दः समवस्थितः । तसाप्युच्चारणे रूपमन्यत्तस्माद्विविच्यते 1.67प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका । षष्ट्याश्च प्रथमायाश्च निमित्तत् 1.68तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते । अस्येते व्यतिरेकश्च तदर्थादेव जाय 1.69स्वं रूपमिति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस् 1.70संज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यामथापरे । जातिप्रत्यायिता व्यक्तिः प्रद 1.71कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन्नानात 1.72पदभेदेऽपि वर्णानामेकत्वं न निवर्तते । वाक्येषु पदमेकं च भिन्नेष्वप्युपलभ्यते 1.73न वर्णव्यतिरेकेण पदमन्यच्च विद्यते । वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन 1.74पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन 1.75भिन्नदर्शनमाश्रित्य व्यवहारोऽनुगम्यते । तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्य 1.76स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते 1.77स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्य 1.78शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद 1.79शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृतः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर 1.80इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्त 1.81इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः । विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तय 1.82चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि । विषयेन्द्रिययोरिष्टा संस्कारः स क्रम 1.83स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते । कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प 1.84यथानुवाकः श्लोको वा सोढत्वमुपगच्छते । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निर 1.85प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते 1.86नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते 1.87असतश्चान्तराले याञ्छब्दानस्तीति मन्यते । प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः 1.88भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपा 1.89ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते । नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते 1.90। यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये । संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रु 1.91प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये । तेषामत्यन्तभेदेऽपि संकीर्णा इव शक्त 1.92यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा । अन्यथाकृत्य विषयमन्यथैवाध्यवस्यति 1.93व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भागावग्रहरूपेण पूर्वं बुद्धिः प्र 1.94यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः 1.95भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् । निर्भागेष्वभ्युपायो वा भागभेदप्रकल् 1.96अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश्चित्व्यक्तय एवास्य ध्वनित्व 1.97अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः । उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् 1.98न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता । आश्रयैरपि नित्यानां जातीनां व्यक्तिर 1.99देशादिभिश्च संबन्धो दृष्टः कायवतामपि । देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः 1.100ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादय 1.101सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् 1.102प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते । तैलोदकादिभेदे तत्प्रत्यक्षं प्रति 1.103विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति संभवः 1.104तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते 1.105यः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः 1.106अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस्तु शब्दसंतानः प्रचयापचयात्मकः 1.107दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादूनां च शब्देषु व्यक्तो भेदः 1.108द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि । कम्पे तूपरते जाता नादा वृत्तेर्वि 1.109अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे । स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव 1.110वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते । कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थि 1.111लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना । स्थानेष्वभिहतो वायुः शब्दत्वं प्र 1.112। तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः । संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः 1.113। अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायातपतमःशब्दभावेन परिणामिनः 1.114। स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परम 1.115। अथायमान्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन 1.116। स मनोभावमापद्य तेजसा पाकमागतः । वायुमाविशति प्राणमथासौ समुदीर्यते 1.117। अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः । तद्धर्मेण समाविष्टस्तेजसैव विवर्तते 1.118। विभजन्स्वात्मनो ग्रन्थीञ्छ्रुतिरूपैः पृथग्विधैः । प्राणो वर्णानभिव्यज्य वर्णेष 1.119। आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्र 1.120। अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते । व्यजनाद्वायुरिव स स्वनिमित्तात् 1.121तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानिषु सैषा भेदं प 1.122शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः 1.123शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्मादर्थविधाः सर्वाः शब्दमात्रासु न 1.124शब्दस्यपरिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद्विश्वं प्रवर्तते 1.125विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश त 1.126साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यं रूपं प्रजाप 1.127प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम् । शरीरभेदे विदुषां स्वां योनिमुपधावत 1.128यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः । तद्भावमभिसंभूय विद्यायां प्रविलीयते 1.129इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्य 1.130आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानामभिघातश्च न विना शब्दभावनाम 1.131न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासत 1.132वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी 1.133सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यत 1.134सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते । तन्मात्रामव्यतिक्रान्तं चैतन्यं सर्वजा 1.135अर्थक्रियासु वाक्सर्वान्समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ट 1.136भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा 1.137। एकत्वमनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक्प्रत्यवभासन्ते वाग्विभागा गव 1.138। षड्द्वारं षडधिष्ठानां षट्प्रबोधां षडव्ययाम् । ते मृत्युमतिवर्तन्ते ये वै वाचमु 1.139। प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते 1.140प्रविभज्यात्मनात्मानं सृष्ट्वा भावान्पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भो 1.141। स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव रूढतामेति तया ह्यर्थो वि 1.142अत्यन्तमतथाभूते निमित्ते श्रुत्यपाश्रयात् । दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा 1.143अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् । प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते 1.144तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्म 1.145प्राणवृत्तिमतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः । क्रमसंहारयोगेन संहृत्यात्मानमात 1.146। वाचः संस्कारमाधाय वाचं ज्ञाने निवेश्य च । विभज्य बन्धनान्यस्याः कृत्वा तां छिन 1.147। ज्योतिरान्तरमासाद्य च्छिन्नग्रन्थिपरिग्रहः । कारणज्योतिषैकत्वं छित्त्वा ग्रन्थ 1.148। न जात्वकर्तृकम्कश्चिदागमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्येवातो व्यवस्थि 1.149अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि । श्रुतिस्मृत्युदितं धर्मं लोको न व् 1.150ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते । धर्मो ज्ञानस्य हेतुश्चेत्तस्य 1.151वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम् । रूपमात्राद्धि वाक्यार्थः केवलं नातिति 1.152सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी । इति न्यायो बहुविधस्तर्केण प्रवि 1.153शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः 1.154यदुदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत 1.155। रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः । शब्दास्तथैव दृश्यन्ते विषापहरणादिषु 1.156यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् । साधूनां साधुभिस्तस्माद्वाच्यमभ्य 1.157सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुमागमे 1.158साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः । अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् 1.159वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या चाचः परं 1.160गौरिव प्रक्षरत्येका रसमुत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता 1.161। एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः । प्राणापानान्तरे नित्यमेका सर्वस्य ति 1.162। अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचमाप्याययन्प 1.163। प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी । सर्वस्योच्छ्वासमासाद्य न वाग्वदति कर्ह 1.164। घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोरपि च घोषिण्या निर्घोषैव गरीयसी 1.165। स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन् 1.166। केवलं बुद्ध्युपादानक्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तत 1.167। अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायि 1.168। पीयूषापूर्यमाणापि नित्यमागन्तुभिर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिधीयते 1.169। यस्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् 1.170। प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः । वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्य 1.171। तद्विभागाविभागाभ्यां क्रियमाणामवस्थितम् । स्वभावज्ञैस्तु भावानां दृश्यन्ते शब् 1.172अनादिमव्यवच्छिन्नां श्रुतिमाहुरकर्तृकाम् । शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते 1.173अविभागाद्विवृत्तानामभिख्या स्वप्नवच्छ्रुतौ । भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो वि 1.174कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्मशास्त्रैस्तेषां विश 1.175शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशि 1.176अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थि 1.177ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशका 1.178न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचक 1.179अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते । अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश् 1.180एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयत 1.181पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः 1.182दैवी वाग्व्यतिकीर्णेयमशक्तैरभिधातृभिः । अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर् 1.183उभयेषामविच्छेदादन्यशब्दविवक्षया । योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः