← Texts
Kashmir Shaivism (Trika / non-dual Tantra)

Vijnana Bhairava Tantra

The Vijnana Bhairava Tantra is a dialogue between the Goddess and Bhairava on the nature of the ultimate reality. Asked what Bhairava truly is, he answers with 112 dharanas — ways of resting attention in the breath, the senses, emotion, space and the gap between thoughts — through which consciousness recognises itself. 162 verses.

Traditional (Rudrayamala) · 162 verses

विज्ञानभैरवः
1.1श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् । त्रिकभेदमशेषेण सारात्सारविभागशः 1.2अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् 1.3किं वा नवात्मभेदेन भैरवे भैरवाकृतौ । त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम 1.4नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः । चक्रारूढमनच्कं वा किं वा शक्तिस्वरूप 1.5परापरायाः सकलमपरायाश्च वा पुनः । पराया यदि तद्वत्स्यात्परत्वं तद्विरुध्यते 1.6न हि वर्णविभेदेन देहभेदेन वा भवेत् । परत्वं निष्कलत्वेन सकलत्वे न तद्भवेत् 1.7प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् । भैरव उवाच । साधु साधु त्वया पृष्टं 1.8गूहनीयतमम्भद्रे तथापि कथयामि ते । यत्किंचित्सकलं रूपं भैरवस्य प्रकीर्तितम् 1.9तदसारतया देवि विज्ञेयं शक्रजालवत् । मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् 1.10ध्यानार्थम्भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् । केवलं वर्णितम्पुंसां विकल्पनि 1.11तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः । न चासौ त्रिशिरा देवो न च शक्तित्रयात्मक 1.12नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः । न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः 1.13अप्रबुद्धमतीनां हि एता बलविभीषिकाः । मातृमोदकवत्सर्वं प्रवृत्त्यर्थं उदाहृतम् 1.14दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी । व्यपदेष्टुमशक्यासावकथ्या परमार्थतः 1.15अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा । यावस्था भरिताकारा भैरवी भैरवात्मनः 1.16तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् । एवंविधे परे तत्त्वे कः पूज्यः कश्च त 1.17एवंविधा भैरवस्य यावस्था परिगीयते । सा परा पररूपेण परा देवी प्रकीर्तिता 1.18शक्तिशक्तिमतोर्यद्वदभेदः सर्वदा स्थितः । अतस्तद्धर्मधर्मित्वात्परा शक्तिः परात्म 1.19न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते । केवलं ज्ञानसत्तायाम्प्रारम्भोऽयम् 1.20शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्यात्शैवी मुखमिहोच्यते 1.21यथालोकेन दीपस्य किरणैर्भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्र 1.22देवदेव त्रिशूलाङ्क कपालकृतभूषण । दिग्देशकालशून्या च व्यपदेशविवर्जिता 1.23यावस्था भरिताकारा भैरवस्योपलभ्यते । कैरुपायैर्मुखं तस्य परा देवि कथम्भवेत् । यथा 1.24ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् । उत्पत्तिद्वितयस्थाने भरणाद्भर 1.25मरुतोऽन्तर्बहिर्वापि वियद्युग्मानिवर्तनात् । भैरव्या भैरवस्येत्थम्भैरवि व्यज्यते 1.26न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते । निर्विकल्पतया मध्ये तया भैरवरूपता 1.27कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् । तदन्ते शान्तनामासौ शक्त्या शान्तः प्र 1.28आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम् । चिन्तयेत्तां द्विषट्कान्ते श्याम 1.29उद्गच्छन्तीं तडित्रूपाम्प्रतिचक्रं क्रमात्क्रमम् । ऊर्ध्वं मुष्टित्रयं यावत्तावद 1.30क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् । स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वा 1.31तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना । निर्विकल्पं मनः कृत्वा सर्वोर 1.32शिखिपक्षैश्चित्ररूपैर्मण्डलैः शून्यपञ्चकम् । ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदय 1.33ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना । शून्ये कुड्ये परे पात्रे स्वयं लीना वरप् 1.34कपालान्तर्मनो न्यस्य तिष्ठन्मीलितलोचनः । क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यमुत्त 1.35मध्यनाडी मध्यसंस्था बिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशत 1.36कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात् । दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये पर 1.37धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् । बिन्दुं शिखान्ते हृदये लयान्ते ध्या 1.38अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते । शब्दब्रह्मणि निष्णातः परम्ब्रह्माधिगच् 1.39प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात् । शून्यया परया शक्त्या शून्यतामेति भ 1.40यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत् । शून्यया शून्यभूतोऽसौ शून्याकारः पुमा 1.41तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः । अनन्यचेताः प्रत्यन्ते परव्योमवप 1.42पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु । अर्धेन्दुबिन्दुनादान्तः शून्योच्चारा 1.43निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् । निर्विकल्पमनास्तस्य वियत्सर्वम्प्रवर्तते 1.44पृष्टशून्यं मूलशून्यं युगपद्भावयेच्च यः । शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवे 1.45पृष्टशून्यं मूलशून्यं हृच्छून्यम्भावयेत्स्थिरम् । युगपन्निर्विकल्पत्वान्निर्विकल 1.46तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् । निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूप 1.47सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे । विभावयेत्ततस्तस्य भावना सा स्थिरा 1.48देहान्तरे त्वग्विभागम्भित्तिभूतं विचिन्तयेत् । न किंचिदन्तरे तस्य ध्यायन्नध्येयभ 1.49हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् 1.50सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् । दृढबुद्धेर्दृढीभूतं तत्त्वलक्ष्यम्प्रवर 1.51यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् । प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं 1.52कालाग्निना कालपदादुत्थितेन स्वकम्पुरम् । प्लुष्टम्विचिन्तयेदन्ते शान्ताभासस्तदा 1.53एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः । अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् 1.54स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च । तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज 1.55पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे । प्रविश्य हृदये ध्यायन्मुक्तः स्वा 1.56भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् । स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः 1.57अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः । अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा म 1.58विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् । तत्रैव च मनो लीनं ततस्तल्लयभाजनम् 1.59घतादिभाजने दृष्टिम्भित्तिस्त्यक्त्वा विनिक्षिपेत् । तल्लयं तत्क्षणाद्गत्वा तल्लय 1.60निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् । विलीने मानसे भावे वृत्तिक्षिण 1.61उभयोर्भावयोर्ज्ञाने ध्यात्वा मध्यं समाश्रयेत् । युगपच्च द्वयं त्यक्त्वा मध्ये तत 1.62भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भाव 1.63सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् । युगपन्निर्विकल्पेन मनसा परमोदयः 1.64वायुद्वयस्य संघट्टादन्तर्वा बहिरन्ततः । योगी समत्वविज्ञानसमुद्गमनभाजनम् 1.65सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् । युगपत्स्वामृतेनैव परानन्दमयो भवेत् 1.66कुहनेन प्रयोगेण सद्य एव मृगेक्षणे । समुदेति महानन्दो येन तत्त्वं प्रकाशते 1.67सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः । पिपीलस्पर्शवेलायाम्प्रथते परमं सुख 1.68वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन 1.69शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् । यत्सुखम्ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यम 1.70लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः । शक्त्यभावेऽपि देवेशि भवेदानन्दसम्प् 1.71आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दमुद्गतं ध्यात्वा तल्लयस्तन् 1.72जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां महानन्दस्ततो भवेत् 1.73गितादिविषयास्वादासमसौख्यैकतात्मनः । योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता 1.74यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तत 1.75अनागतायां निद्रायाम्प्रणष्टे बाह्यगोचरे । सावस्था मनसा गम्या परा देवी प्रकाशते 1.76तेजसा सूर्यदीपादेराकाशे शबलीकृते । दृष्टिर्निवेश्या तत्रैव स्वात्मरूपम्प्रकाशते 1.77करङ्किण्या क्रोधनया भैरव्या लेलिहानया । खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते 1.78मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् । निधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवे 1.79उपविश्यासने सम्यग्बाहू कृत्वार्धकुञ्चितौ । कक्षव्योम्नि मनः कुर्वन्शममायाति तल्ल 1.80स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च । अचिरेण निराधारं मनः कृत्वा शिवं 1.81मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् । होच्चारं मनसा कुर्वंस्ततः शान् 1.82आसने शयने स्थित्वा निराधारं विभावयन् । स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत 1.83चलासने स्थितस्याथ शनैर्वा देहचालनात् । प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुया 1.84आकाशं विमलम्पश्यन्कृत्वा दृष्टिं निरन्तराम् । स्तब्धात्मा तत्क्षणाद्देवि भैरवं व 1.85लीनं मूर्ध्नि वियत्सर्वम्भैरवत्वेन भावयेत् । तत्सर्वम्भैरवाकारतेजस्तत्त्वं समावि 1.86किञ्चिज्ज्ञातं द्वैतदायि बाह्यालोकस्तमः पुनः । विश्वादि भैरवं रूपं ज्ञात्वानन्तप 1.87एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् । तैमिरम्भावयन्रूपम्भैरवं रूपमेष्यति 1.88एवमेव निमील्यादौ नेत्रे कृष्णाभमग्रतः । प्रसार्य भैरवं रूपम्भावयंस्तन्मयो भवेत् 1.89यस्य कस्येन्द्रियस्यापि व्याघाताच्च निरोधतः । प्रविष्टस्याद्वये शून्ये तत्रैवात् 1.90अबिन्दुमविसर्गं च अकारं जपतो महान् । उदेति देवि सहसा ज्ञानौघः परमेश्वरः 1.91वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु । निराधारेण चित्तेन स्पृशेद्ब्रह्म सना 1.92व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् । निराश्रया चितिः शक्तिः स्वरूपं द 1.93किंचिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः । तत्रैव चेतनां युक्त्वा भैरवे निर्म 1.94चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेदिति । विकल्पानामभावेन विकल्पैरुज्झितो भव 1.95माया विमोहिनी नाम कलायाः कलनं स्थितम् । इत्यादिधर्मं तत्त्वानां कलयन्न पृथग्भवेत 1.96झगितीच्छां समुत्पन्नामवलोक्य शमं नयेत् । यत एव समुद्भूता ततस्तत्रैव लीयते 1.97यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्तदास्मि वै । तत्त्वतोऽहं तथाभूतस्तल्लीनस्तन्म 1.98इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् । आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थद 1.99निर्निमित्तम्भवेज्ज्ञानं निराधारम्भ्रमात्मकम् । तत्त्वतः कस्यचिन्नैतदेवम्भावी शि 1.100चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् । अतश्च तन्मयं सर्वम्भावयन्भवजिज्जन 1.101कामक्रोधलोभमोहमदमात्सर्यगोचरे । बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते 1.102इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् । भ्रमद्वा ध्यायतः सर्वम्पश्यतश्च सु 1.103न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत् । भैरवि ज्ञायतां मध्ये किं तत्त्व 1.104विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् । दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी 1.105घटादौ यच्च विज्ञानमिच्छाद्यं वा ममान्तरे । नैव सर्वगतं जातम्भावयनिति सर्वगः 1.106ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽस्ति सम्बन्धे स 1.107स्ववदन्यशरीरेऽपि संवित्तिमनुभावयेत् । अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर 1.108निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत् । तदात्मपरमात्मत्वे भैरवो मृगलोचने 1.109सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवे 1.110जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः । ममैव भैरवस्यैता विश्वभङ्ग्यो विभ 1.111भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम्भुवि पातनात् । क्षोभशक्तिविरामेण परा संजायत 1.112आधारेष्वथवाऽशक्त्याऽज्ञानाच्चित्तलयेन वा । जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः 1.113सम्प्रदायमिमम्देवि शृणु सम्यग्वदाम्यहम् । कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात 1.114संकोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च । अनच्कमहलं ध्यायन्विशेद्ब्रह्म सनातनम् 1.115कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् । अविकल्पमतेः सम्यक्सद्यस्चित्तलयः स्फ 1.116यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा । तत्र तत्र शिवावास्था व्यापकत्वात्क् 1.117यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः । तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भ 1.118क्षुताद्यन्ते भये शोके गह्वरे वा रणाद्द्रुते । कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्ताम 1.119वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत् । स्वशरीरं निराधारं कृत्वा प्रसरति 1.120क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् । तज्ज्ञानं चित्तसहितं देवि शून् 1.121भक्त्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः । सा शक्तिः शाङ्करी नित्यम्भवयेत्तां 1.122वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता । तामेव मनसा ध्यात्वा विदितोऽपि प्रशाम 1.123किंचिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने । न शुचिर्ह्यशुचिस्तस्मान् 1.124सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः । न च तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गत 1.125समः शत्रौ च मित्रे च समो मानावमानयोः । ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भ 1.126न द्वेषम्भावयेत्क्वापि न रागम्भावयेत्क्वचित् । रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म 1.127यदवेद्यं यदग्राह्यं यच्छून्यं यदभावगम् । तत्सर्वम्भैरवम्भाव्यं तदन्ते बोधसम्भवः 1.128नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते । बाह्याकाशे मनः कृत्वा निराकाशं समाव 1.129यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् । परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भ 1.130भया सर्वं रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः 1.131अहं ममेदमित्यादि प्रतिपत्तिप्रसङ्गतः । निराधारे मनो याति तद्ध्यानप्रेरणाच्छमी 1.132नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः । शब्दान्प्रतिक्षणं ध्यायन्कृतार्थोऽर्थ 1.133अतत्त्वमिन्द्रजालाभमिदं सर्वमवस्थितम् । किं तत्त्वमिन्द्रजालस्य इति दार्ढ्याच्छम 1.134आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया । ज्ञानायत्ता बहिर्भावा अतः शून्य 1.135न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः । प्रतिबिम्बमिदम्बुद्धेर्जलेष्विव विव 1.136इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् । इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मन 1.137ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः । एकमेकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव् 1.138मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् । यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः 1.139निस्तरङ्गोपदेशानां शतमुक्तं समासतः । द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जन 1.140अत्र चैकतमे युक्तो जायते भैरवः स्वयम् । वाचा करोति कर्माणि शापानुग्रहकारकः 1.141अजरामरतामेति सोऽणिमादिगुणान्वितः । योगिनीनाम्प्रियो देवि सर्वमेलापकाधिपः 1.142जीवन्नपि विमुक्तोऽसौ कुर्वन्नपि न लिप्यते । श्री देवी उवाच । इदं यदि वपुर्देव पर 1.143एवमुक्तव्यवस्थायां जप्यते को जपश्च कः । ध्यायते को महानाथ पूज्यते कश्च तृप्यति 1.144हूयते कस्य वा होमो यागः कस्य च किं कथम् । श्री भैरव उवाच । एषात्र प्रक्रिया बाह् 1.145भूयो भूयः परे भावे भावना भाव्यते हि या । जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य 1.146ध्यानं हि निश्चला बुद्धिर्निराकारा निराश्रया । न तु ध्यानं शरीराक्षिमुखहस्तादिकल 1.147पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योम्नि सा पूजा ह् 1.148अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्दिनम् । भरिताकारता सात्र तृप्तिरत्यन्तपूर्णत 1.149महाशून्यालये वह्नौ भूताक्षविषयादिकम् । हूयते मनसा सार्धं स होमश्चेतनास्रुचा 1.150यागोऽत्र परमेशानि तुष्टिरानन्दलक्षणा । क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्व 1.151रुद्रशक्तिसमावेशस्तत्क्षेत्रम्भावना परा । अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृ 1.152स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः । आवेशनं तत्स्वरूपे स्वात्मनः स्न 1.153यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः । यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम 1.154व्रजेत्प्राणो विशेज्जीव इच्छया कुटिलाकृतिः । दीर्घात्मा सा महादेवी परक्षेत्रम्पर 1.155अस्यामनुचरन्तिष्ठन्महानन्दमयेऽध्वरे । तया देव्या समाविष्टः परम्भैरवमाप्नुयात् 1.156षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः । जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो 1.157इत्येतत्कथितं देवि परमामृतमुत्तमम् । एतच्च नैव कस्यापि प्रकाश्यं तु कदाचन 1.158परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः । निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् 1.159भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया । ग्रामो राज्यम्पुरं देशः पुत्रदारकुटु 1.160सर्वमेतत्परित्यज्य ग्राह्यमेतन्मृगेक्षणे । किमेभिरस्थिरैर्देवि स्थिरम्परमिदं धनम 1.161देवदेव माहदेव परितृप्तास्मि शङ्कर । रुद्रयामलतन्त्रस्य सारमद्यावधारितम् 1.162सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च । इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस