← Yoga Sutras
Yoga Sutras

कैवल्यपादः

34 sutras · Patanjali

4.1जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः 4.2जात्यन्तरपरिणामः प्रकृत्यापूरात् 4.3निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् 4.4निर्माणचित्तान्यस्मितामात्रात् 4.5प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् 4.6तत्र ध्यानजमनाशयम् 4.7कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् 4.8ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् 4.9जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् 4.10तासामनादित्वं चाशिषो नित्यत्वात् 4.11हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः 4.12अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् 4.13ते व्यक्तसूक्ष्मा गुणात्मानः 4.14परिणामैकत्वाद्वस्तुतत्त्वम् 4.15वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः 4.16न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् 4.17तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् 4.18सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् 4.19न तत्स्वाभासं दृश्यत्वात् 4.20एकसमये चोभयानवधारणम् 4.21चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च 4.22चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् 4.23द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् 4.24तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् 4.25विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः 4.26तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् 4.27तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः 4.28हानमेषां क्लेशवदुक्तम् 4.29प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः 4.30ततः क्लेशकर्मनिवृत्तिः 4.31तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् 4.32ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् 4.33क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः 4.34पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति