← Yoga Yajnavalkya
Yoga Yajnavalkya
प्रथमोऽध्यायः
70 verses · Yajnavalkya
1.1
याज्ञवल्क्यं मुनिश्रेष्ठं सर्वज्ञं ज्ञाननिर्मलम् । सर्वशास्त्रार्थतत्त्वज्ञं सदा
1.2
वेदवेदाङ्गतत्त्वज्ञं योगेषु परिनिष्ठितम् । जितेन्द्रियं जितक्रोधं जिताहारं जिताम
1.3
तपस्विनं जितामित्रं ब्रह्मण्यं ब्राह्मणप्रियम् । तपोवनगतं सौम्यं सन्ध्योपासनतत्प
1.4
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैश्च समावृतम् । सर्वभूतसमं शान्तं सत्यसन्धं गतक्ल
1.5
गुणज्ञं सर्वभूतेषु परार्थैकप्रयोजनम् । ब्रुवन्तं परमात्मानमृषीणामुग्रतेजसाम्
1.6
तमेवं गुणसम्पन्नं नारीणामुत्तमा वधूः । मैत्रेयी च महाभागा गार्गी च ब्रह्मविद्वरा
1.7
सभामध्यगता चेयमृषीणामुग्रतेजसाम् । प्रणम्य दण्डवद्भूमौ गार्ग्येतद्वाक्यमब्रवीत्
1.8
भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत । योगतत्त्वं मम ब्रूहि साङ्गोपाङ्गं विधानतः
1.9
एवं पृष्टः स भगवान्सभामध्ये स्त्रिया तया । ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत
1.10
उत्तिष्ठोत्तिष्ठ भद्रं ते गार्गि ब्रह्मविदां वरे । वक्ष्यामि योगसर्वस्वं ब्रह्मण
1.11
समाहितमना गार्गि शॄणु त्वं गदतो मम । इत्युक्त्वा ब्रह्मविच्छ्रेष्ठो याज्ञवल्क्यस
1.12
नारायणं जगन्नाथं सर्वभूतहृदि स्थितम् । वासुदेवं जगद्योनिं योगिध्येयं निरञ्जनम्
1.13
आनन्दममृतं नित्यं परमात्मानमीश्वरम् । ध्यायन्हृदि हृषीकेशं मनसा सुसमाहितः
1.14
नेत्राभ्यां तां समालोक्य कृपया वाक्यमब्रवीत् । एह्येहि गार्गि सर्वज्ञे सर्वशास्त
1.15
योगं वक्ष्यामि विधिवद्धात्रोक्तं परमेष्ठिना । मुनयः श्रूयतामत्र गार्ग्या सह समाह
1.16
पद्मासने समासीनं चतुराननमव्ययम् । चराचराणां स्रष्टारं ब्रह्माणं परमेष्ठिनम्
1.17
कदाचित्तत्र गत्वाहं स्तुत्वा स्तोत्रैः प्रणम्य च । पृष्टवानिममेवार्थं यन्मां त्व
1.18
देवदेव जगन्नाथ चतुर्मुख पितामह । येनाहं यामि निर्वाणं कर्मणा मोक्षमव्ययम्
1.19
ज्ञानं च परमं गुह्यं यथावद्ब्रूहि मे प्रभो । मयैवमुक्तो द्रुहिणः स्वयम्भूर्लोकना
1.20
मामालोक्य प्रसन्नात्मा ज्ञानकर्माण्यभाषत । ज्ञानस्य द्विविधौ ज्ञेयौ पन्थानौ वेदच
1.21
अनुष्ठितौ तौ विद्वद्भिः प्रवर्तकनिवर्तकौ । वर्णाश्रमोक्तं यत्कर्म कामसङ्कल्पपूर्
1.22
प्रवर्तकं भवेदेतत्पुनरावृत्तिहेतुकम् । कर्तव्यमिति विध्युक्तं कर्म कामविवर्जितम्
1.23
येन यत्क्रियते सम्यक् ज्ञानयुक्तं निवर्तकम् । निवर्तकं हि पुरुषं निवर्तयति जन्मन
1.24
प्रवर्तकं हि सर्वत्र पुनरावृत्तिहेतुकम् । वर्णाश्रमोक्तं कर्मैव विध्युक्तं कामवर
1.25
विधिवत्कुर्वतस्तस्य मुक्तिर्गार्गि करे स्थिता । वर्णाश्रमोक्तं कर्मैव विधिवत्काम
1.26
येन यत्क्रियते तस्य गर्भवासः करे स्थितः । संसारभीरुभिस्तस्मात्विध्युक्तं कामवर्ज
1.27
विधिवत् कर्म कर्तव्यं ज्ञानेन सह सर्वदा । जाताश्च त्रिषु लोकेषु आनुलोम्येन मानवा
1.28
ते देवानामृषीणां च पितॄणामृणिनस्तथा । ऋषिभ्यो ब्रह्मचर्येण पितृभ्यश्च सुतैस्तथा
1.29
कुर्याद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरन् । चत्वारो ब्राह्मणस्योक्ता आश्रमाः
1.30
क्षत्रियस्य त्रयः प्रोक्ता द्वावेकौ वैश्यशूद्रयोः । अधीत्य वेदं वेदार्थं साङ्गोप
1.31
स्नायाद्विध्युक्तमार्गेण ब्रह्मचर्यव्रतं चरन् । संस्कृतायां सवर्णायां पुत्रमुत्प
1.32
यजेदग्नौ तु विधिवत्भार्यया सह वा विना । कान्तारे विजने देशे फलमूलोदकान्विते
1.33
तपश्चरन्वसेन्नित्यं साग्निहोत्रः समाहितः । आत्मन्यग्नीन्समारोप्य सन्न्यसेद्विधिन
1.34
संन्यासाश्रमसंयुक्तो नित्यं कर्म समाचरन् । यावत्क्षेत्री भवेत्तावत् यजेदात्मानमा
1.35
क्षत्रियश्च चरेदेवमासंन्यासाश्रमात्सदा । वानप्रस्थाश्रमादेवं चरेद्वैश्यः समाहितः
1.36
शूद्रः शुश्रूषया नित्यं गृहस्थाश्रमं आचरेत् । शूद्रस्य ब्रह्मचर्यं च मुनिभिः कैश
1.37
आनुलोम्यप्रसूतानां त्रयाणामाश्रमास्त्रयः । शूद्रवच्छूद्रजातानं आचारः कीर्तितो बु
1.38
चतुर्णामाश्रमस्थानामहन्यहनि नित्यशः । विध्युक्तं कर्म कर्तव्यं कामसङ्कल्पवर्जितम
1.39
तस्मात्त्वमपि योगीन्द्र स्वाश्रमं धर्माचरन् । श्रद्धया विधिवत्सम्यक् ज्ञानकर्म स
1.40
इति मे कर्मसर्वस्वं योगरूपं च तत्त्वतः । उपदिश्य ततो ब्रह्मा योगनिष्ठोऽभवत्स्वयम
1.41
श्रुत्वैतद्याज्ञवल्क्योक्तं वाक्यं गार्गी मुदान्विता । पुनः प्राह मुनिश्रेष्ठमृष
1.42
ज्ञानेन सह योगीन्द्र विध्युक्तं कर्म कुर्वतः । त्वयोक्तं मुक्तिरस्तीति तयोर्ज्ञा
1.43
भार्यया त्वेवमुक्तस्तु याज्ञवल्क्यस्तपोनिधिः । तां समालोक्य कृपया ज्ञानरूपमभाषत
1.44
ज्ञानं योगात्मकं विद्धि योगश्चाष्टाङ्गसंयुतः । संयोगो योग इत्युक्तो जीवात्मपरमत्
1.45
वक्ष्याम्यङ्गानि ते सम्यग्यथा पूर्वं मया श्रुतम् । समाहितमना गार्गी ऋषिभिः सह सं
1.46
यमश्च नियमश्चैव आसनं च तथैव च । प्राणायामस्तथा गार्गि प्रत्यहारश्च धारणा
1.47
ध्यानं समाधिरेतानि योगाङ्गानि वरानने । यमश्च नियमश्चैव दशधा सम्प्रकीर्तितः
1.48
आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम् । प्रणायामस्त्रिधा प्रोक्तः प्रत्याहा
1.49
धारणा पञ्चधा प्रोक्ता ध्यानं षोढा प्रकीर्तितम् । त्रयं तेषूत्तमं प्रोक्तं समाधिस
1.50
बहुधा केचिदिच्छन्ति विस्तरेण पॄथक् शृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जव
1.51
क्षमाधृतिर्मिताहारः शौचं त्वेते यमा दश । कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा
1.52
अक्लेशजननं प्रोक्तमहिंसासात्वेन योगिभिः । विध्युक्तं चेदहिंसा स्यात्क्लेशजन्मैव
1.53
वेदेनोक्तेऽपि हिंसास्यादभिचारादि कर्म यत् । सत्यं भूतहितं प्रोक्तं नियतार्थाभिभा
1.54
कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहा । अस्तेयमिति सा प्रोक्ता ऋषिभिस्तत्त्वदर्
1.55
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यगो ब्रह्मचर्यं प्रचक्षते
1.56
ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च । ब्रह्मचर्यं तु तत्प्रोक्तं तथैवा रण
1.57
ऋतावृतौ स्वदारेषु सङ्गतिर्या विधानतः । ब्रह्मचर्यं तु तत्प्रोक्तं गृहस्थाश्रमवास
1.58
राज्ञश्चैव गॄहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् । विशां वृत्तवतां चैव केचिदिच्छन्त
1.59
शुश्रूषैव तु शूद्रस्य ब्रह्मचर्यं प्रकीर्तितम् । शुश्रूषा वा गुरोर्नित्यं ब्रह्म
1.60
गुरवः पञ्च सर्वेषां चतुर्णां श्रुतिचोदिताः । माता पिता तथाचार्यो मातुलः श्वशुरस्
1.61
एषु मुख्यास्त्र्यः प्रोक्ता आचार्यः पितरौ तथा । एषु मुख्यतमस्त्वेक आचार्यः परमार
1.62
तमेवं ब्रह्मविच्छ्रेष्ठं नित्यकर्मपरायणम् । शुश्रूषयार्चयेन्नित्यं तुष्टोऽभूद्ये
1.63
दया च सर्वभूतेषु सर्वत्रानुग्रहः स्मृतः । विहितेषु तदन्येषु मनोवाक्कायकर्मणाम्
1.64
प्रवृतौ वा निवृतौ वा एकरूपत्वमार्जवम् । प्रियाप्रियेषु सर्वेषु समत्वं यच्छरीरिणा
1.65
क्षमा सैवेति विद्वद्भिर्गदिता वेदवादिभिः । अर्थहानौ च बन्धूनां वियोगेष्वपि सम्पद
1.66
तयोः प्राप्तो च सर्वत्र चित्तस्य स्थापनं धृतिः । अष्टौ ग्रासा मुनेर्भक्ष्याः षोड
1.67
द्वात्रिंशच्च गृहस्थानां यथेष्टं ब्रह्मचारिणाम् । एषामयं मिताहारो ह्यन्येषामल्पभ
1.68
शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं मनःशु
1.69
मनःशुद्धिश्च विज्ञेया धर्मेणाध्यात्मविध्यया । आत्मविद्या च धर्मश्च पित्राचार्येण
1.70
तस्मात्सर्वेषु कालेषु सर्वैर्निःश्रेयसार्थिभिः । गुरवः श्रुतसम्पन्ना मान्या वाङ्
द्वितीयोऽध्यायः →