← Yoga Yajnavalkya
Yoga Yajnavalkya

षष्ठोऽध्यायः

92 verses · Yajnavalkya

6.1प्राणायाममथादीनां प्रवक्ष्यामि विधानतः । समाहितमनास्त्वं च शृणु गार्गि वरानने 6.2प्राणापानसमायोगः प्राणायामः इतीरितः । प्राणायामः इति प्रोक्तो रेचकपूरककुम्भकैः 6.3वर्णत्रयात्मका ह्येते रेचकपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मय 6.4इडया वायुमारोप्य पूरयित्वोदरस्थितम् । शनैः षोडशभिर्मात्रैर्कारं तत्र संस्मरेत् 6.5धारयेत्पूरितं पश्चाच्चतुःषष्ठ्या तु मात्रया । उकारमूर्तिमत्रापि संस्मरन्प्रणवं ज 6.6यावद्वा शक्यते तावद्धारणं जपसंयुतम् । पूरितं रेचयेत् पश्चात्प्राणं बाह्यानिलान्व 6.7शनैः पिङ्गलया गार्गि द्वात्रिंशन्मात्रया पुनः । मकारमूर्तिमत्रापि संस्मरन्प्रणवं 6.8प्राणायामो भवेदेषः पुनश्चैवं समभ्यसेत् । ततः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा 6.9उकारमूर्तिमत्रापि संस्मरन्सुसमाहितः । पूरितं धारयेत्प्राणं प्रणवं विंशतिद्वयम् 6.10जपेदत्र स्मरन्मूर्तिं मकाराख्यं महेश्वरम् । यावद्वा शक्यते पश्चाद्रेचयेतिडयानिलम 6.11एवमेव पुनः कुर्यादिडयापूर्य पूर्ववत् । नाड्या प्राणं समारोप्य पूरयित्वोदरस्थितम् 6.12प्रणवेन सुसंयुक्तां व्याहृतीभिश्च संयुताम् । गायत्रीं च जपेद्विप्रः प्राणसम्यमने 6.13पुनश्चैवं त्रिभिः कुर्यात्पुनश्चैव त्रिसन्धिषु । यद्वा समभ्यसेन्नित्यं वैदिकं लौ 6.14प्राणसंयमने विद्वान्जपेत्तद्विंशतिद्वयम् । ब्राह्मणः श्रुतसम्पन्नः स्वधर्मनिरतः 6.15स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । केचिद्भूतहितार्थाय जपमिच्छन्ति लौकिकम् 6.16द्विजवत्क्षात्रस्योक्तश्च प्राणसंयमने जपः । वैश्यानां धर्मयुक्तानां स्त्रीशूद्रा 6.17प्राणसंयमने गार्गि मन्त्रं प्रणववर्जितम् । नमोन्तं शिवमन्त्रं वा वैष्णवं वेष्यते 6.18यद्वा समभ्यसेच्छूद्रो लौकिकं विधिपूर्वकम् । प्राणसंयमने स्त्री च जपेत्तद्विंशतिद 6.19न वैदिकं जपेच्छूद्रः स्त्रियश्च न कदाचन । स्वाश्रमस्थस्य वैश्यस्य केचिदिच्छन्ति 6.20सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन वा । प्राणसंयमनं कुर्यात् ब्राह्मणो वेदप 6.21नित्यमेव प्रकुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः 6.22ऋतुत्रयात्पुनन्त्येनं जन्मान्तरकृतादघात् । वत्सराद्ब्रह्महा शुद्ध्येत्तस्मान्नित 6.23योगाभ्यासरतास्त्वेवं स्वधर्मनिरताश्च ये । प्राणसंयमनेनैव सर्वे मुक्ता भवन्ति हि 6.24बाह्यादापूरणं वायोरुदरे पूरको हि सः । सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् 6.25बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः । प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः 6.26कम्पको मध्यमः प्रोक्त उत्थानश्चोत्तमो भवेत् । पूर्वं पूर्वं प्रकुर्वीत यावदुत्तम 6.27सम्भवत्युत्तमे गार्गि प्राणायामे सुखी भवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽ 6.28देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहा । निःर्श्वासोच्छ्वासकौ तस्य न विद्येते कथञ्च 6.29देहे यद्यपि तौ स्यातां स्वाभाविकगुणावुभौ । तथापि नश्यतस्तेन प्राणायामोत्तमेन हि 6.30तयोर्नाशे समर्थः स्यात्कर्तुं केवलकुम्भकम् । रेचकं पूरकं मुक्त्त्वा सुखं यद्वायु 6.31प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । रेच्य चापूर्य यः कुर्यात्स वै सहितकुम् 6.32सहितं केवलं चाथ कुम्भकं नित्यमभ्यसेत् । यावन्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् 6.33केवले कुम्भके सिद्धे रेचपूरणवर्जिते । न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्य 6.34मनोजवत्वं लभते पलितादि च नश्यति । मुक्तेरयं महामार्गो मकराख्यान्तरात्मनः 6.35नादं चोत्पादयत्येषः कुम्भकः प्राणसंयमः । प्राणसंयमनं नाम देहे प्राणस्य धारणम् 6.36एषः प्राणजयोपायः सर्वमृत्यूपघातकः । किञ्चित्प्राणजयोपायं तव वक्ष्यामि तत्त्वतः 6.37बाह्यात्प्राणं समाकृष्य पूरयित्वोदरस्थितम् । नाभिमध्ये च नासाग्रे पादाङ्गुष्ठे च 6.38धारयेन्मनसा प्राणं सन्ध्याकालेषु सर्वदा । सर्वरोगविनिर्मुक्तो जीवेद्योगी गतक्लमः 6.39नासाग्रे धारणं गार्गि वायोर्विजयकारणम् । सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात् 6.40शरीरं लघुतां याति पादाङ्गुष्ठे च धारणात् । रसनावायुमाकृष्य यःपिबेत्सततं नरः 6.41श्रमदाहौ न तस्यास्तां नश्यन्ति व्याधयस्तथा । सन्ध्ययोर्ब्राह्मकाले वा वायुमाकृष् 6.42त्रिमासात्तस्य कल्याणि जग्यते वाक्सरस्वती । षण्मासाभ्यासयोगेन महारोगैः प्रभुच्यत 6.43आत्मन्यात्मानमारोप्य कुण्डल्यां यस्तु धारयेत् । क्षयरोगादयस्तस्य नश्यन्तीत्यपरे 6.44जिह्वया वायुमानीय जिह्वामूले निरोधयन् । यः पिबेदमृतं विद्वान्सकलं भद्रमश्नुते 6.45आत्मन्यात्मानमिडया समानीय भ्रुवोऽन्तरे । भ्रुवोऽन्तरात् पिबेद्यस्त्रिदशाहारं व्य 6.46नाडीभ्यां वायुमारोप्य नाभौ वा तुन्दपार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः सो 6.47मासमेकं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । पिबेद्यस्त्रिदशाहारं धारयेत्तुन्दम 6.48गुल्माष्ठीला प्लीहा चान्ये त्रिद्रोषजनितास्तथा । तुन्दमध्यगता रोगाः सर्वे नश्यन् 6.49ज्वराः सर्वे विनश्यन्ति विषाणि विविधानि च । बहुनोक्तेन किं गार्गि पलितादि च नश्य 6.50एवं वायुजयोपायः प्राणस्य तु वरानने । शक्यमासनमास्थाय समाहितमनास्तथा 6.51करणानि वशीकृत्य विषयेभ्यो बलात्सुधीः । विषयेभ्यः अपानमूर्ध्वमाकृष्य प्रणवेन समाह 6.52हस्ताभ्यां बन्धयेत्सम्यक्कर्णादि करणानि च । अङ्गुष्ठाभ्यामुमे श्रोत्रे तर्जनीभ्य 6.53नासापुटौ मध्यमाभ्यां प्रच्छाद्य करणानि वै । आनन्दानुभवं यावत्तावन्मूर्द्धनि धारय 6.54प्राणः प्रयात्यनेनैव ततस्त्वायुर्विघातकृत् । ब्रह्मरन्ध्रे सुषुम्णायां मृणालान्त 6.55नादोत्पत्तिस्त्वनेनैव शुद्धस्फटिकसन्निभा । आमूर्ध्नो वर्तते नादो वीणादण्डवदुत्थि 6.56शङ्खध्वनिनिभस्त्वादौ मध्ये मेघध्वनिर्यथा । व्योमरन्ध्रगते नादे गिरिप्रस्रवणं यथा 6.57व्योमरन्ध्रगते वायौ चित्ते चात्मनि संस्थिते । तदानन्दी भवेद्देही वायुस्तेन जितो 6.58योगिनस्त्वपरे ह्यत्र वदन्ति समचेतसः । प्राणायामपराः पूता रेचपूरणवर्जिताः 6.59दक्षिणेतरगुल्फेन सीवनीं पीडयेत्शिराम् अधस्ताद्दण्डयो सूक्ष्मां सव्योपरि च दक्षिण 6.60जङ्घोर्वोरन्तरं गार्गि निश्छिद्रं बन्धयेत्दृढम् । समग्रीवशिरस्कन्धः समपृष्ठः समो 6.61नेत्राभ्यां दक्षिणं गुल्फं लोकयन्नुपरिस्थितम् । धारयन्मनसा सार्धं व्याहरन्प्रणवा 6.62आसने नान्यधीरास्ते द्विजो रहसि नित्यशः । क्षत्रियश्च वरारोहे व्याहरन्प्रणवाक्षरम 6.63आसने नान्यधीरस्ते रहस्येव जितेन्द्रियः । वैश्याः शूद्राः स्त्रियश्चान्ये योगाभ्य 6.64शैवं वा वैष्णवं वाथ व्याहरन्नन्यमेव वा । आसने नान्यधीरस्ते दीपं हस्ते विलोकयन् 6.65आयुर्विघातकृत्प्राणस्त्वनेनाग्निकुलं गतः । धूमध्वजजयं यावन्नान्यधीरेवमभ्यसेत् 6.66धारणं कुर्वतस्तस्य शक्तिं स्यादिष्टभोजने । देहश्च लघुतां याति जठराग्निश्च वर्धते 6.67दृष्टचिह्नस्ततस्तस्मान्मनसारोप्य मारुतम् । मन्त्रमुच्चारयन्दीर्घं नाभिमध्ये निरो 6.68यावन्मनोलयत्यस्मिन्नाभौ सवितृमण्डले । तावत्समभ्यसेद्विद्वान्नियतो नियतासनः 6.69एतेन नाभिमध्यस्थधारणेनैव मारुतः । कुण्डलीं याति वह्निश्च दहत्यत्र न संशयः 6.70सन्तप्ता वह्निना तत्र वायुना चालिता स्वयम् । प्रसार्य फणभृद्भोगं प्रबोधं याति सा 6.71प्रबुद्धे संसरत्यस्मिन्नाभिमूले तु चक्रिणि । ब्रह्मरन्ध्री सुषुम्णायां प्रयाति प 6.72सम्प्राप्ते मारुते तस्मिन्सुषुम्णायां वरानने । मन्त्रमुच्चार्य मनसा हृन्मध्ये धा 6.73हृदयात्कण्ठकूपे च भ्रुवोर्मध्ये च धारयेत् । तस्मादारोप्य मनसा साग्निं प्राणमनन्य 6.74धारयेद्व्योम्नि विप्रेन्द्रे व्याहरन्प्रणवाक्षरम् । वायुना पूरिते व्योम्नि साङ्ग 6.75तदात्मा राजते तत्र यथा व्योम्नि विकर्तनः । भजते शरीरं विसिसृक्षुश्चेदेवं सम्यक् 6.76एकाक्षरं परं ब्रह्म ध्यायन्प्रणवमीश्वरम् । सम्भिद्य मनसा मूर्ध्नि ब्रह्मरन्ध्रं 6.77प्राणमुन्मोचयेत्पश्चान्महाप्राणे खमध्यमे । देहातीते जगत्प्राणे शून्ये नित्ये ध्र 6.78आकाशे परमानन्दे स्वात्मानं योजयेद्धिया । ब्रह्मैवासौ भवेद्गार्गि न पुनर्जन्मभाग् 6.79तस्मात्त्वं च वरारोहे नित्यं कर्म समाचार । सन्ध्याकालेषु वा नित्यं प्राणसंयमनं क 6.80प्राणायामपराः सर्वे प्राणायामपरायणाः । प्राणायामविशुद्धा ये ते यान्ति परमां गतिम 6.81प्राणायामादृते नान्यत्तारकं नरकादमि । संसारार्णवमग्नानां तारकः प्राणसंयमः 6.82तस्मात् त्वं विधिमार्गेण नित्यं कर्म समाचर । विधिनोक्तेन मार्गेण प्राणसंयमनं कुर 6.83नासाग्रे दृक् सदा सम्यक् सव्ये न्यस्येतरं करम् । नासाग्रे शशभृद्बिम्बे ज्योत्स्न 6.84अम्बोमा सहितं शुभ्रं सोमसूर्याग्निलोचनम् । पञ्चवक्रं महादेवं चन्द्रशेखरमीश्वरम् 6.85नन्दिवाहनसंयुक्तं सर्वदेवसमन्वितम् । प्रसन्नं सर्ववरदं ध्यायेत्सर्वायुधं शिवम् 6.86यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । अकारमूर्तिरेतेषां रक्ताङ्गी हं 6.87दण्डहस्ता सती वाला गायत्रीत्यवधार्यताम् । उकारमूर्तिरेतेषां कृष्णाङ्गी वृषवाहनी 6.88चक्रहस्ता सती चैव सावित्रीत्यवधार्यताम् । मकारमूर्तिरेतेषां श्वेताङ्गी तार्क्ष्य 6.89शूलानन्दमयी वृद्धा सरस्वत्यवधार्यताम् । माहेश्वरीति सा प्राज्ञैः पश्चिमा परिकीर् 6.90सृष्टिस्थित्यन्तकालाद्या मकारोऽप्यन्तकात्मकः । अक्षरत्रयमेवैतत्कारणत्रयमिष्यते 6.91त्रयाणां कारणं ब्रह्म सद्रूपं सर्वकारणम् । एकाक्षरं परं ज्योतिस्तमाहुः प्रणवं बु 6.92एवं ज्ञात्वा विधानेन प्रणवेन समन्वितम् । प्राणायामं ततः कुर्याद्रेचपूरककुम्भकैः