← Ashtavakra Gita
Ashtavakra Gita
पञ्चमम् प्रकरणम्
4 verses · Ashtavakra (traditional)
5.1
न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि । सङ्घातविलयं कुर्वन्नेवमेव लयं
5.2
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः । इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज
5.3
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि । रज्जुसर्प इव व्यक्तमेवमेव लयं
5.4
समदुःखसुखः पूर्ण आशानैराश्ययोः समः । समजीवितमृत्युः सन्नेवमेव लयं व्रज
← चतुर्थम् प्रकरणम्
षष्ठम् प्रकरणम् →