← Ashtavakra Gita
Ashtavakra Gita

षष्ठम् प्रकरणम्

4 verses · Ashtavakra (traditional)

6.1आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः 6.2महोदधिरिवाहं स प्रपञ्चो वीचिसन्निभः । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः 6.3अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो ल 6.4अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः