← Bhrigu Sutras
Bhrigu Sutras

तन्वादिद्वादश भावस्थित रवि फलमाह

110 sutras · Maharshi Bhrigu

1.1आरोग्यं भवति 1.2पित्तप्रकृतिः नेत्ररोगी 1.3मेधावी सदाचारी वा 1.4उष्णो दरवान् 1.5मूर्खः पुत्रहीनः 1.6तीक्ष्णबुद्धिः 1.7अल्पभाषी प्रवासशीलः सुखी 1.8स्वोच्चे कीर्तिमान् 1.9बलिनिरीक्षिते विद्वान् 1.10नीचे प्रतापवान् 1.11ज्ञानद्वेषी दरिद्रः अन्धकः 1.12शुभदृष्टे न दोषः 1.13सिंहे स्वांशे नाथः 1.14कुलीरे ज्ञानवान् 1.15रोगी बुदबुदाक्षह्ः 1.16मकरो हृद्रोगी 1.17मीने स्त्रीजनसेवी 1.18कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः 1.19क्षेत्री शुभयुक्तहः आरोग्यवान् 1.20पापयुते शत्रुनीचक्षेत्रे तृतीये वर्षे ज्वरपीडा 1.21शुभदृष्टे न दोषः 1.22मुखरोगी 1.23पञ्चविंशतिवर्षे राजदण्डेन द्रव्यच्छेदः 1.24उच्चे स्वक्षेत्रे न दोषः 1.25पापयुते नेत्ररोगी 1.26स्वल्पविद्वान् रोगी 1.27शुभवीक्षिते धनवान् दोषादीन् व्यपहरती 1.28नेत्रसौख्यम् 1.29स्वोच्चे स्वक्षेत्रे वा बहुधनवान् 1.30बुधयुते पवनवाक् 1.31धनाधिपःस्वोच्चे वाग्मी 1.32शास्त्रज्ञः ज्ञानवान् नेत्रसौख्यं राजयोगश्च 1.33बुद्धिमान् अनुजरहितः ज्येष्ठनाशः 1.34पञ्चमे वर्षे चतुरष्ट द्वादशवर्षे वा किञ्चित्पीडा 1.35पापयुते क्रूरकर्ता 1.36द्विभ्रातृमान् पराक्रमी 1.37युद्धे शूरश्च 1.38कीर्तिमान् निजधनभोगी 1.39शुभयुते सोदर वृद्धिः 1.40भावाधिपे बलयुते भ्रातृदीर्घायुः 1.41पापयुते पापेक्षणवंशान्नाशः 1.42शुभवीक्षणवशाद्धनवान् भोगी सुखीच 1.43हीनाङ्गः अहङ्कारी जनविरोधी उष्णदेही मनः पीडावान् 1.44द्वात्रिंशद्वर्षे सर्वकर्मानुकूलवान् 1.45बहुप्रतिष्ठासिद्धिः सत्तापदवी ज्ञानशौर्य सम्पन्नः 1.46धनधान्यहीनः 1.47भावाधिपे बलयुते स्वक्षेत्रत्रिकोणे केन्द्रे लक्षणापेक्षया आन्दोलिकाप्राप्तिः 1.48पापयुते पापविक्षणवशाद्दुष्टस्थाने दुर्वाहनसिद्धिः 1.49क्षेत्रहीनः 1.50परगृह एव वासः 1.51निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान् 1.52मेधावी अल्प पुत्रः बुद्धिमान् 1.53भावाधिपे बलयुते पुत्रसिद्धिः 1.54राहुकेतुयुते सर्पशापात् सुतक्षयः 1.55कुजयुते शत्रुयुते मूलात् 1.56शुभदृष्टयुते न दोषः 1.57सूर्यशरभादिषु भक्तः 1.58बलयुते पुत्रसमृद्धिः 1.59अल्पज्ञातिः 1.60शत्रुवृद्धिः धनधान्यसमृद्धिः 1.61विंशतिवर्षे नेत्र वैपरीत्यं भवति 1.62शुभदृष्टयुते न दोषः 1.63अहिकानन पारकृन्मन्त्रसेवी 1.64कीर्तिमान् शोकरोगी महोष्णदेही 1.65शुभयुते भावाधिपे देहारोग्यम् 1.66ज्ञातिशत्रुबाहुल्यम् 1.67भावाधिपे दुर्बले शत्रुनाशः 1.68पितृदुर्बलः 1.69विवाहविलम्बनं स्त्रीद्वेषी परदाररतः दारद्वयवान् 1.70पञ्चविंशतिवर्षे देशान्तर प्रवेशः 1.71अभक्ष्य भक्षणः विनोदशीलः दारद्वेषी 1.72नाशान्तबुद्धिः 1.73स्वर्क्षेबलवति एकदारवान् 1.74शत्रुनीचवीक्षिते पापयुते वीक्षणैर्बहुदारवान् 1.75अल्पपुत्रः नेत्ररोगी 1.76दशमे वर्षे शिरोव्रणी 1.77शुभयुतदृष्टे तत्परिहारः 1.78अल्पधनवान् गोमहिष्यादिनाशः 1.79देहे रोगः 1.80ख्यातिमान् 1.81भावाधिपे बलयुते इष्टक्षेत्रवान् 1.82स्वोच्चेस्वक्षेत्रे दीर्घायुः 1.83सूर्यादिदेवताभक्तः 1.84धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घाय 1.85बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः 1.86नीचारिपापक्षेत्रे पापैर्युते दृष्टे वा पितृनाशः 1.87शुभयुते वीक्षणवशाद् वा पिता दिर्घायुः 1.88अष्टादशवर्षे विद्यादिकारेण प्रसिद्धो भवति द्रव्यार्जनसमर्थश्च 1.89दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान् 1.90स्वोच्चे स्वक्षेत्रे बल परः 1.91कीर्तिप्रसिद्धिः 1.92तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्ठासिद्धिः 1.93पापक्षेत्रे पापयुते पापदृष्टवशात् कर्मविघ्नकरः 1.94दुष्टकृतिः 1.95अनाचारः दुष्कर्मकृत्पापी 1.96बहुधान्यवान् पञ्चविंशतिवर्षे वाहनसिद्धिः 1.97धनवाग्जालद्रव्यार्जनसमर्थः प्रभु ज्वरितभृत्यजनस्नेहः 1.98पापयुते बहुधान्यव्ययः 1.99वाहनहीनः 1.100स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् 1.101वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः 1.102वाहनयोगेन बहुभाग्यवान् 1.103षट्त्रिंशद्वर्षे गुल्मरोगी 1.104अपात्रव्ययकारी पतितः धनहानिः 1.105गोहत्यादोषकृत् परदेशवासी 1.106भावाधिपे बलयुते वा देवतासिद्धिः 1.107शय्याखट्वङ्गादि सौख्यम् 1.108पापयुते अपात्रव्ययकारी सुखशय्याहीनः 1.109षष्ठेशयुते कुष्ठरोगयुतः शुभदृष्टियुते निवृत्तिः 1.110पापी रोगवृद्धिमान्