← Bhrigu Sutras
Bhrigu Sutras
तन्वादिद्वादशभावस्थितचन्द्रफलमाह
75 sutras · Maharshi Bhrigu
2.1
रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः
2.2
पञ्चदशवर्षे बहुयात्रावान्
2.3
मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः
2.4
धनी सुखी नृपालः मृदुवाक् बुद्धिरहितः मृदुगात्रः बली
2.5
शुभदृष्टे बलवान्
2.6
बुद्धिमान् आरोग्यवान् वाग्जालकः धनी
2.7
लग्नेशे बलरहिते व्याधिमान्
2.8
शुभदृष्टे आरोग्यवान्
2.9
शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषी
2.10
अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः
2.11
पापयुतेविद्याहीनः
2.12
शुभयुते बहुविद्याधनवान्
2.13
एकेनैवपूर्णचन्द्रेण सम्पूर्णधनवान्
2.14
अनेक विद्यावान्
2.15
भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः
2.16
चतुर्विंशतिवर्षे भाविरुपेन राजदण्डेन द्रव्यच्छेदः
2.17
गोमहिष्यादिहीनः
2.18
पिशुनः मेधावी सहोदर वृद्धि
2.19
राज्याभिषिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः मातृरोगी
2.20
परस्त्रीस्तनपानकारी
2.21
मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान्
2.22
पूर्णचन्द्रं स्वक्षेत्रे बलवान् मातृदीर्घायुः क्षीणचन्द्रे पापयुते मातृनाशः
2.23
वाहनहीनः बलयुते वाहनसिद्धिः
2.24
भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः
2.25
स्त्रीदेवतासिद्धिः भार्यारूपवती
2.26
क्वचित् कोपवती
2.27
स्तनमध्येलाञ्छनं भवति
2.28
चतुष्पादलाभः स्त्रीद्वयं बहुक्षीरलाभः सत्त्वयुतः बहुश्रमोत्पन्नः चिन्तावान् स्त्
2.29
स्त्रीदेवतोपासनावान्
2.30
शुभयुते वीक्षणवशादनुग्रहसमर्थः
2.31
पापयुतेक्षणवशान्निग्रहसमर्थः
2.32
पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः सत्कर्मकृत् भाग्
2.33
अधिकदारिद्र्यदेही
2.34
षट्त्रिंशद्वर्षे विधवासङ्गमी तत्र पापयुते हीनपापकरः
2.35
राहुकेतुयुते अर्थहीनः
2.36
घोरः शत्रुकलहवान् सहोदरहीन अग्निमान्ददिरोगी
2.37
तटाककूपादिषु जलादिगण्डः
2.38
पापयुते रोगवान्
2.39
क्षीणचन्द्रे पुर्णफलानि
2.40
शुभयुते बलवान् अरोगी
2.41
मृदुभाषी पार्श्वनेत्रः द्वात्रिंशद्वर्षे स्त्रीयुक्तः
2.42
स्त्रीलोलः स्त्रीमूलेन ग्रन्थिशस्त्रादिपीडा
2.43
राजप्रसादलाभः
2.44
भावाधिपे बलयुते स्त्रीद्वयम्
2.45
क्षीणचन्द्रे कलत्रनाशः पूर्णचन्द्रे बलयुते स्वोच्चे एकदारवान्
2.46
भोगलुब्धः
2.47
अल्पवाहनवान्
2.48
तडाकादिषुगण्डः
2.49
स्त्रीमूलेनबन्धुजन परित्यागी
2.50
स्वर्क्षे स्वोच्चे दीर्घायुः क्षीणे वा मध्यमायुः
2.51
बहुश्रुतवान् पुण्यवान्
2.52
तटाकगोपुरादिनिर्माण पुण्यकर्ता
2.53
पुत्रभाग्यवान्
2.54
पूर्णचन्द्रे बलयुते बहुभाग्यवान्
2.55
पितृदीर्घयुः
2.56
पापयुते पापक्षेत्रे भाग्यहीनः
2.57
नष्टपितृमातृकः
2.58
विद्यावान्
2.59
पापयुते सप्तविंशतिवर्षे विधवासङ्गमेन जनविरोधी
2.60
अतिमेधावी
2.61
सत्यकर्मनिरतः कीर्तिमान् दयावान्
2.62
भावाधिपे बलयुते विशेसत्कर्मसिद्धिः
2.63
पापनिरिक्षिते पापयुते वा दुष्कृतिः
2.64
कर्मविघ्नकरः
2.65
बहुश्रुतवान् पुत्रवान् उपकारि
2.66
पञ्चादशवर्षेपुत्रर्णबहुप्राबल्ययोगः
2.67
गुणाढ्यः
2.68
भावाधिपे बलहीने बहुधन व्ययः
2.69
बलयुते लाभवान्
2.70
लाभेचन्द्रे निक्षेपलाभः
2.71
शुक्रयुतेन नरवाहन योग
2.72
बहुविद्यावान्
2.73
क्षेत्रवान् अनेकजनरक्षणभाग्यवान्
2.74
दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान् स्त्रीयोगयुक्तः अन्न हीनः
2.75
शुभयुते विद्वान् दयावान् पापशत्रुयुतेपापलोकःशुभमित्रयुते श्रेष्ठलोकवान्
← तन्वादिद्वादश भावस्थित रवि फलमाह
तन्वादिद्वादशभावस्थित भौमफलमाह →