← Bhrigu Sutras
Bhrigu Sutras
तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह
32 sutras · Maharshi Bhrigu
8.1
मृतप्रसूतिः
8.2
मेषवृषभकर्कराशिस्थे द्यावान्
8.3
बहुभोगी
8.4
अशुभे दृष्टे मुखलाञ्छनी
8.5
निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः
8.6
पापयुते चुबुके लाञ्छनम्
8.7
तिलनिष्पावमुद्रकोद्रवसमृद्धिवान्
8.8
शुभयुते कण्ठलाञ्छनम्
8.9
बहुभूषणसमृद्धिः जायाद्वयं सेवकः मातृक्लेशः पापयुते निश्चयेन
8.10
शुभयुतदृष्टे न दोषः
8.11
पुत्राभावः सर्पशापात् सुतक्षयः
8.12
नाग प्रतिष्ठया पुत्रप्राप्तिः
8.13
पवनव्याधिः दुर्मार्गी राजकोपः दुष्टग्रामवासी
8.14
धीरवान् अतिसुखी
8.15
इन्दुयुते राजस्त्रीभोगी
8.16
निर्धनः चोरः
8.17
दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्वितिये कलत्रे गुल्मव्याधिः
8.18
पापयुते गण्डोत्पत्तिः
8.19
शुभयुते गण्डनिवृत्तिः
8.20
नियमेन दारद्वयम्
8.21
शुभयुते एकमेव
8.22
अतिरोगी द्वत्रिंशद्वर्षायुष्मान
8.23
शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते स्वोच्चे षष्टिवर्षाणिवा जीवितम्
8.24
पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः
8.25
वितन्तुसङ्गमः
8.26
दुर्ग्रामवासः
8.27
शुभयुते न दोषः
8.28
काव्यव्यसनः
8.29
पुत्रैः समृध्दः
8.30
धनधान्य समृध्दः
8.31
अल्पपुत्रः
8.32
नेत्ररोगी पापगतिः
← तन्वादिद्वादश भावस्थित शनिफलमाह