← Bhrigu Sutras
Bhrigu Sutras

तन्वादिद्वादश भावस्थित शनिफलमाह

53 sutras · Maharshi Bhrigu

7.1वातपित्तदेहः 7.2उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः 7.3स्वर्क्षे पितृधनवान् 7.4वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् 7.5महाराजयोगः 7.6चन्द्रमसा दृष्टे भिक्षुकी वृत्तिः 7.7शुभदृष्टे निवृत्तः 7.8द्रव्याभावः दारद्वयम् 7.9पापयुते दारवञ्चनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी 7.10भ्रातृहानिकारकः 7.11अदृष्टः दुर्वृत्तः 7.12उच्चस्वक्षेत्रे भ्रातृवृद्धिः 7.13तत्रपापयुते भ्रातृद्वेषी 7.14मातृहानिः द्विमातृवान् 7.15सौख्यहानिः निर्धनः 7.16उच्चस्वक्षेत्रे न दोषः 7.17अश्वादिआन्दोलाद्यवरोही 7.18लग्नेशेमन्दे मातृदीर्घयुः 7.19सौख्यवान् 7.20रन्ध्रेशयुक्ते मात्ररिष्टम् 7.21सुखहानिः 7.22पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री 7.23स्वक्षेत्रे स्त्रीप्रजासिद्धिः 7.24गुरुदृष्टे स्त्रीद्वयम् 7.25तत्र प्रथमाऽपुत्रा द्वितीया पुत्रवती 7.26बलयुते मन्दे स्त्रीभिर्युक्तः 7.27अल्पज्ञातिः शत्रुक्षयः 7.28धनधान्यसमृद्धिः कुजयुते देशान्तर सञ्चारी 7.29अल्पराजयोगः 7.30भङ्गयोगात्क्वचित्सौख्यक्वचिद्योगभङ्गः 7.31रन्ध्रेशे मन्दे अरिष्टं वातरोगी शूलव्रणदेही 7.32शरीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखीः उच्चस्वक्षेत्रगते अनेकस्त्रीसम्भो 7.33केतुयुते स्त्रीसम्भोगी 7.34कुजयुते शिश्नचुम्बनपरः 7.35शुक्रयुते भगचुम्बनपरः 7.36परस्त्रीसम्भोगी 7.37त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः 7.38उच्चस्वक्षेत्रे दीर्घायुः 7.39अरिनीचगे भावाधिपे अल्पायुः 7.40कष्टान्नभोगी 7.41पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे तटाकगोपुरनिर्माणकर्त्ता 7.42उच्चस्वक्षेत्रे पितृदीर्घायुः 7.43पापयुते दुर्बले पित्ररिष्टवान् 7.44पञ्चविंशतिवर्षे गङ्गास्नानी अतिलुब्धः पित्तशरीरी 7.45पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः 7.46बहुधनी विघ्नकरः भूमिलाभः राजपूजकः 7.47उच्चे स्वक्षेत्रे वा विद्वान् 7.48महाभाग्ययोगः बहुधनी वाहनयोगः 7.49पतितः विकलाङ्गः 7.50पापयुते नेत्रच्छेदः 7.51शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः 7.52पापयुते नरक प्राप्तिः 7.53अपात्रव्ययकारी निर्धनः