← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
षष्ठभावफलाध्यायः
28 verses · Maharshi Parashara
17.1
अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् । देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा
17.2
षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः । तदा व्रणा भवेद्देहे षष्ठराशिसमाश्
17.3
एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः । व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि
17.4
तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् । इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिष
17.5
गुरुणा नासिकायां च भृगुणा नयने पदे । शनिना राहुणा कुक्षौ केतुना च तथा भवेत्
17.6
लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः । यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखर
17.7
लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ । राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्
17.8
लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी । स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना स
17.9
कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् । लग्ने षष्ठाष्टमाधीशौ रविणा यदि संयुत
17.10
ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा । बुधेन पित्तं गुरुणा रोगाभावं विनिर्
17.11
स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि । गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम
17.12
चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् । एवं पित्रादिभावानां तत्तत्कारकयोगतः
17.13
गण्डं तेषां वदेदेवमूह्यमत्र मनीषिभिः । रोगस्थानगते पापे तदीशे पापसंयुते
17.14
राहुणा संयुते मन्दे सर्वदा रोगसंयुतः । रोगस्थानगते भौमे तदीशे रंध्रसंयुते
17.15
षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः । षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुत
17.16
द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् । रोगस्थानं गतो राहुः केन्द्रे मान
17.17
लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता । व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे
17.18
त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् । रिपुस्थानगते चन्द्रे शशिना संयुते
17.19
पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् । लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्
17.20
एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् । रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थि
17.21
चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्भयम् । षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ
17.22
जातस्य जन्मतो विप्र प्रथमे च द्वितीयके । वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभ
17.23
षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः । पञ्चमे नवमेऽब्दे तु जलभीतिं विनिर्दि
17.24
अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः । त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि
17.25
रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे । द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपी
17.26
लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे । एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः
17.27
सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते । व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भव
17.28
लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे । दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते
← पञ्चमभावफलाध्यायः
जायाभावफलाध्यायः →