← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

जायाभावफलाध्यायः

42 verses · Maharshi Parashara

18.1जायाभावफलं वक्ष्ये शृणु त्वं द्विजसत्तम । जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर 18.2कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः । रोगिणीं कुरुते नारीं तथा तुङ्गादिकं 18.3सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः । यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भव 18.4जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः । तदा जातो धनी मानी सुखसौभाग्यसंयुतः 18.5नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे । तस्यापि रोगिणी भार्या बहुभार्यो नरो भ 18.6मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते । स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवे 18.7वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः । कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च 18.8बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता । गुरौ ब्राह्मणभार्या स्याद्गर् 18.9हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः । कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसं 18.10कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी । पापे द्वादशकामस्थे क्षीणचन्द्रस्तु 18.11जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् । जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे 18.12वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः । भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा 18.13भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् । मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि 18.14मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः । दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते 18.15लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः । तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी 18.16कलत्रे तत्पतौ वापि पापग्रहसमन्विते । भार्याहानिं वदेत् तस्य निर्बले च विशेषतः 18.17षष्ठाष्टमव्ययस्थाने मदेशो दुर्बलो यदि । नीचराशिगतो वापि दारनाशं विनिर्दिशेत् 18.18कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे । कारको बलहीनश्च दारसौख्यं न विद्यते 18.19सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते । सप्तमे क्लीवराश्यंशे द्विभार्यो जातको 18.20कलत्र्स्थानगे भौमे शुक्रे जामित्रगे शनौ । लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भ 18.21द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके । दारेशे बलसंयुक्ते बहुदारसमन्वितः 18.22दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः । पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो 18.23दारस्तानं गते सूर्ये तदीशे भृगुसंयुते । सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् 18.24कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे । दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् 18.25लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे । वत्सरैकादशे प्राप्ते विवाहं लभते नरः 18.26लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ । द्वादशैकोनविंशे च विवाहः प्रायशो 18.27चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ । वत्सरेऽष्टादशे प्राप्ते विवाहं 18.28धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे । अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः 18.29धनेशे लाभराशिस्ते लाभेशे धनराशिगे । अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः 18.30रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते । द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते 18.31दारांशकगते लग्ननाथे दारेश्वरे व्यये । त्रयोविंशे च षड्विंशे विवाहं लभते नरः 18.32रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते । पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते 18.33भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते । एकत्रिंशास्त्रयस्त्रिंशे दारलाभं व 18.34भाग्याज्जामित्रगे शुक्रे तद्द्यूने दारनायके । त्रिंशे वा सप्तविंशाब्दे विवाहं लभ 18.35दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते । अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाश 18.36मदेशे नाशराशिस्थे व्ययेशे मदराशिगे । तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् 18.37कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते । पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः 18.38रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे । द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत 18.39लग्नेशे नीचराशिस्थे धनेशे निधनं गते । त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवे 18.40शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे । रन्ध्रेशे सुतभावस्थे प्रथमं 18.41द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् । विवाहं लभते मर्त्यो नाऽत्र कार्य 18.42षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः । अष्टमे च यदा सौरिस्तस्य भार्या न जीवति