← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
भाग्यभावफलाध्यायः
32 verses · Maharshi Parashara
20.1
अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः । सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भव
20.2
भाग्यस्थानगते जीवे यदीशे केन्द्रसंस्थिते । लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत्
20.3
भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते । लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्
20.4
भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते । भाग्येशे नीचराशिस्थे पिता निर्धन एव
20.5
भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते । लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घज
20.6
भाग्येशे केन्द्रभावस्थे गुरुणा च निरीक्षिते । तत्पिता वाहनैर्युक्तो राजा वा तत्स
20.7
भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे । शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पित
20.8
परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते । धर्मिष्ठो नृपवात्सल्यः पितृभक्तो भवेन
20.9
लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते । गुरुणा सहिते दृष्टे पितृभक्तिसमन्
20.10
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे । द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भ
20.11
लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते । अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवे
20.12
कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः । भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः
20.13
षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते । व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे
20.14
जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् । रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभा
20.15
जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् । व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायक
20.16
तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् । लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते
20.17
द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् । भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यग
20.18
षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् । राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते श
20.19
सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् । भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशि
20.20
वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् । रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसं
20.21
पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः । पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते
20.22
पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् । भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तम
20.23
षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् । रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्
20.24
त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् । भाग्येशे नीचराशिस्थे तदीशे भाग्यराशि
20.25
षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् । एवं जातस्य दैवज्ञो फलं ज्ञात्वा
20.26
परमोच्चांशगे शुक्रे भाग्येशेन समन्विते । भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत
20.27
गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे । विंशद्वर्षात् परं चैव बहुभाग्यं विनिर
20.28
परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे । षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर
20.29
लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते । गुरुणा संयुते द्यूने धनवाहनलाभकृत्
20.30
भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते । भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः
20.31
भाग्यस्थानगते मन्दे शशिना च समन्विते । लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत्
20.32
एवं भाग्यफलं विप्र सङ्क्षेपात् कथितं मया । लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्द
← आयुर्भावफलाध्यायः
कर्मभावफलाध्यायः →