← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
कर्मभावफलाध्यायः
22 verses · Maharshi Parashara
21.1
कर्मभावफलं चाऽथ कथयामि तवाग्रतः । सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम्
21.2
सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे । जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृ
21.3
कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् । सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमाद
21.4
कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा । राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा
21.5
दशमे पापसंयुक्ते लाभे पापसमन्विते । दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः
21.6
कर्मेशे नाशराशिस्थे राहुणा संयुते तथा । जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः
21.7
कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते । द्यूनेशे पापसंयुते शिश्नोदरपरायणः
21.8
तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते । भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रता
21.9
लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते । तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत्
21.10
कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते । वस्त्राभरणसौख्यादि लभते नात्र संशयः
21.11
लाभस्थानगते सूर्ये राहुभौमसमन्विते । रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः
21.12
मीने जीवे भृगुयुते लग्नेशे बलसंयुते । स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान्
21.13
केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते । कर्मराशिस्थिते शुक्रे रत्नवान् स नर
21.14
केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते । गुरुणा सहिते दृष्टे स कर्मसहितो भवे
21.15
कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते । केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भव
21.16
कर्मस्थानगते मन्दे नीचखेचरसंयुते । कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः
21.17
कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते । पापग्रहेण संयुक्ते दुष्कर्म निरतो भ
21.18
कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे । कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत्
21.19
कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे । लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो
21.20
लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते । देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भव
21.21
कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते । लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो
21.22
इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम । लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम
← भाग्यभावफलाध्यायः
लाभभावफलाध्यायः →