← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra
लाभभावफलाध्यायः
11 verses · Maharshi Parashara
22.1
लाभभावफलञ्चाथ कथयामि द्विजोत्तम । श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी
22.2
लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः । बहुलाभं तदा कुर्यादुच्चे सूर्यांश
22.3
लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते । गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत
22.4
लाभेशे विक्रमे भावे शुभग्रहसमन्विते । षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभ
22.5
केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते । चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्
22.6
लाभस्थाने गुरुयुते धने चन्द्रसमन्विते । भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत्
22.7
लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते । धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युत
22.8
लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते । त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभा
22.9
धनेशे लाभराशिस्थे लाभेशे धनराशिगे । विवाहात्परतश्चैव बहुभाग्यं समादिशेत्
22.10
भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते । भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयु
22.11
लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते । कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन
← कर्मभावफलाध्यायः
व्ययभावफलाध्यायः →