← Brihat Parashara Hora Shastra
Brihat Parashara Hora Shastra

भावेशफलाध्यायः

148 verses · Maharshi Parashara

24.1लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी । मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व 24.2लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी । सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः 24.3लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी । सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुख 24.4लग्नेशे सुखगे बालः पितृमातृसुखान्वितः । बहुभ्रातृयुतः कामी गुणरूपसमन्वितः 24.5लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् । प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप 24.6लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः । पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जि 24.7लग्नेशे सप्तमे पापे भार्या तस्य न जीवति । शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि 24.8लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः । रोगी चौरो महाक्रोधी द्यूती च परदारगः 24.9लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः । विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्यु 24.10लग्नेशे दशमे जातः पितृसौख्यसमन्वितः । नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः 24.11लग्नेशे लाभगे जातः सदा लाभसमन्वितः । सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः 24.12लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः । व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते 24.13धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः । कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् 24.14धनेशे धनगे जातो धनवान् गर्वसंयुतः । द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते 24.15धनेशे सहजे जातो विक्रमी मतिमान् गुणी । कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः 24.16धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः । गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् 24.17धनेशे सुतभावस्थे जातो धनसमन्वितः । धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि 24.18धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् । सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् 24.19धनेशे सप्तमे जातः परदाररतो भिषेक् । पापेक्षितयुते तस्य भार्या च व्यभिचारिणी 24.20धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः । पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं 24.21धनेशे धर्मभावस्थे धनवानुद्यमी पटुः । बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृ 24.22धनेशे कर्मगे जातः कामी मानी च पण्डितः । बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झित 24.23धनेशे लाभभावस्थे सर्वलाभसमन्वितः । सदोद्योगयुतो मानी कीर्तिमान् जायते नरः 24.24धनेशे व्ययभावस्थे साहसी धनवर्जितः । परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि 24.25लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् । सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धि 24.26द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः । स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनका 24.27सहजे सहजाधीशे सहोदरसुखान्वितः । धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् 24.28सुखस्थे सहजाधीशे सुखी च धनसंयुतः । मतिमान् जायते बालो दुष्टभार्यापतिश्च सः 24.29सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः । भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्ष 24.30षष्ठभावे तृतीयेशे भ्रातृशत्रुर्महाधनी । मातुलैश्च समं वैरं मातुलानीप्रियो नरः 24.31सप्तमे सहजाधीशे राजसेवापरो नरः । बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः 24.32अष्टमे सहजाधीशे जातश्चौरो नरो भवेत् । दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् 24.33नवमे सहजाधीशे पितुः सुखविवर्जितः । स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः 24.34दशमे सहजाधीशे जातः सर्वसुखान्वितः । स्वभुजार्जितवित्तश्च दुष्टस्त्रीभरणे रतः 24.35लाभगे सहजाधीशे व्यापारे लाभवान् सदा । विद्याहीनोऽपि मेधावी साहसी परसेवकः 24.36व्ययस्थे सहजाधीशे कुकार्ये व्ययकृज्जनः । पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्यो 24.37सुखेशे लग्नगे जातो विद्यागुणविभूषितः । भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः 24.38सुखेशे धनगे जातो भोगी सर्वधनान्वितः । कुटुम्बसहितो मानी साहसी कुहकान्वितः 24.39सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः । उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान 24.40सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः । चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्र 24.41सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः । विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तव 24.42सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः । क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर् 24.43सुखेशे सप्तमे जातो बहुविद्यासमन्वितः । पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् 24.44सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः । पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत 24.45सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः । देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः 24.46सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् । रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः 24.47सुखेशे लाभगे जातो गुप्तरोगभयान्वितः । उदारी गुणवान् दाता परोपकरणे रतः 24.48सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः । जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः 24.49सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः । कदर्यो वक्रचित्तश्च परद्रव्यापहारक 24.50सुतेशे धनगे जातो बहुपुत्रो धनान्वितः । कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि 24.51सुतेशे सहजे भावे जायते सोदरप्रियः । पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा 24.52सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः । लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽ 24.53सुतेशे सुतभावस्थे शुभाढ्ये पुत्रवान् नरः । पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत् 24.54सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् । मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा 24.55सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः । पुत्रादिसुखयुक्तश्च परोपकरणे रतः 24.56सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः । कासश्वाससमायुक्तः क्रोधी च सुखवर्जि 24.57सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् । स्वयं वा ग्रन्थकर्ता च विख्यातः कुलद 24.58सुतेशे राज्यभावस्थे राजयोगो हि जायते । अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् 24.59सुतेशे लाभगे जातो विद्यावान् जनवल्लभः । ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः 24.60सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः । दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वित 24.61षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः । आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः 24.62षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः । परदेशी सुखी वक्ता स्वकर्मनीरतः सदा 24.63षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः । भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः 24.64षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः । मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान 24.65षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् । शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान 24.66षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् । अन्यैः सह भवेन् मैत्री सुखं मध्यं ध 24.67षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः । कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः 24.68षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् । परद्रव्याभिलाषी च परदाररतोऽशुचिः 24.69षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी । व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च 24.70षष्ठेशे दशमे भावे मानवः कुलविश्रुतः । अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् 24.71षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् । गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झ 24.72षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा । विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत् 24.73दारेशे लग्नगे जातः परदारेषु लम्पटः । दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः 24.74दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः । दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः 24.75दारेशे सहजे जातो मृतापत्यो हि मानवः । कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवत 24.76दारेशे सुखभावस्थे जाया नास्य वशे सदा । स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोग 24.77दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः । सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः 24.78दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता । स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी 24.79दारेशे सप्तमे भावे जातो दारसुखान्वितः । धीरो विचक्षणो धीमान् केवलं वातरोगवान् 24.80दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः । भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न च 24.81दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः । जायाहृतमना जातो बह्वारम्भकरो नरः 24.82दारेशे कर्मभावस्थे नास्य जाया वशानुगा । स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः 24.83दारेशे लाभभावस्थे दारैरर्थसमागमः । पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् 24.84दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा । भार्या;पि व्ययशीलाऽस्य वस्त्राजीवी नरो 24.85अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः । देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः 24.86अष्टमेशे धने बाहुबलहीनः प्रजायते । धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते 24.87रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते । सालस्यो भृत्यहीनश्च जायते बलवर्जितः 24.88रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः । गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः 24.89रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते । स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धना 24.90रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः । रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् 24.91रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् । व्यापारे च भवेद्धानिस्तस्मिन् पापय 24.92रन्ध्रेशे मृत्युभावस्थे जातो दीर्घायुषा युतः । निर्बले मध्यमायुः स्याच्चौरो निन् 24.93अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः । दुष्टभार्यापतिश्चैव परद्रव्यापहारकः 24.94रन्ध्रेशे कर्मभावस्थे पितृसौख्यविवर्जितः । पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते 24.95रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः । बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभ 24.96रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा । अल्पायुश्च भवेज्जातः सपापे च विशेष 24.97भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः । सुशीलश्च सुरूपश्च विद्यावान् जनपूजित 24.98भाग्येशे धनभावस्थे पण्डितो जनवल्लभः । जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः 24.99भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः । धनवान् गुणवांश्चापि रूपशीलसमन्वित 24.100भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः । सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः 24.101भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः । गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः 24.102भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः । मातुलादिसुखैर्हीनः शत्रुभिः पीडितः 24.103भाग्येशे दारभावस्थे दारयोगात् सुखोदयः । गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तम 24.104भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् । ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य ज 24.105भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः । गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु 24.106भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः । मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजित 24.107भाग्येशे लाभभावस्थे धनलाभो दिने दिने । भक्तो गुरुजनानां च गुणवान् पुण्यवानपि 24.108भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् । शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ 24.109कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः । बाल्ये रोगी सुखी पश्चाद् धनवृद्धि 24.110राज्येशे धनभावस्थे धनवान् गुणसंयुतः । राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः 24.111कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः । विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः 24.112कर्मेशे सुखभावस्थे सुखी मातृहिते रतः । यानभूमिगृहाधीशो गुणवान् धनवानपि 24.113कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः । सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि 24.114कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः । चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः 24.115राज्येशे दारभावस्थे जातो दारसुखान्वितः । मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा 24.116कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः । दीर्घायुरप्यसौ जातः परनिन्दापरायणः 24.117राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः । तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः 24.118कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी । विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः 24.119राज्येशे लाभभावस्थे जातो धनसुतान्वितः । हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी 24.120राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः । शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्त 24.121लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी । समदृष्टिः कविर्वाग्मी सदा लाभसमन्वित 24.122लाभेशे धनभावस्थे जातः सर्वधनान्वितः । सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा 24.123लाभेशे सहजे जातः कुशलः सर्वकर्मसु । धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् 24.124लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् । तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः 24.125लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः । विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुख 24.126लाभेशे रोगभावस्थे जातो रोगसमन्वितः । क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः 24.127लाभेशे दारभावस्थे लाभो दारकुलात् सदा । उदारश्च गुणी कामी जनो भार्यावशानुगः 24.128लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते । तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स 24.129लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः । चतुरः सत्यवादी च राजपुज्यो धनाधिपः 24.130लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः । निजधर्मरतो धीमान् सत्यवादी जितेन्द्रि 24.131लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु । पण्डित्यं च सुखं तस्य वर्द्धते च दिने दि 24.132लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा । कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः 24.133व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् । दुर्बलः कफरोगी च धनविद्याविवर्जितः 24.134व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा । धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः 24.135व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः । भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः 24.136व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः । भूमियानगृहादीनां हानिस्तस्य दिनेदिने 24.137व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः । पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः 24.138व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् । क्रोधी पापी च दुःखी च परजायारतो नरः 24.139व्ययेशे दारभावस्थे व्ययो दारकृतः सदा । तस्य भार्यासुखं नैव बलविद्याविवर्जितः 24.140व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा । प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंय 24.141व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः । मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः 24.142व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् । पितृतोऽपि सुखं तस्य स्वल्पमेव हि जाय 24.143व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते । परेण रक्षितं द्रव्यं कदाचिल्लभते नरः 24.144व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते । न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम 24.145इति ते कथितं विप्र भावेशानां च यत् फलम् । बलाबलविवेकेन सर्वेषं तत्समादिशेत् 24.146द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् । विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते 24.147विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् । ग्रहे पूर्णबले पुर्णमर्धमर्ध 24.148पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति । उक्तं भावस्थितानां ते भावेशानां पलं मया